अध्यायः 007
अश्वत्थामवचनाद्दुर्योधनेन सैनापत्येऽभिषिक्तेन कर्णेन रणाय
सेनानियोजनम् ॥ 1 ॥
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत ।
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे ॥
द्रवमाणे महाराज कौरवाणां बलार्णवे ।
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्वातृभिर्वृतः ॥
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ ।
विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥
स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः ।
युद्धा च सुचिरं कालं पाण्डवैः सह भारत ॥
लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा ।
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ॥
`निवेश्य बलवद्वोरं क्षुत्पिपासाबलैर्युतम् ।
श्रमेण महता युक्तं तथा द्रोणवधेन च ॥
दीनरूपा रणे कर्म कृत्वा घोरं च शर्वरीम् ।
विशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत्' ॥
कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम् ।
कुरवः सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः ॥
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च ।
वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥
ततो दुर्योधनो राजा साम्ना परमवल्गुना ।
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥
मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम् ।
एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः ॥
सञ्जय उवाच ।
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः ।
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥
तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् ।
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम् ।
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥
रागो योगस्तथा दाक्ष्यां नयश्चेत्यर्थसाधकाः ।
उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः ॥
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः ।
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति ।
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥
ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम् ।
कर्णमेवाभिषेभ्यामः सैनापत्येन भारत ॥
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥
एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः ।
वैवस्वत इवासह्यः शक्तो जेतुं रणे निपून् ॥
एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः ।
`दुर्योधनो महाराज भृशं प्रीतमनास्तदा' ॥
आशां बहुमतीं चक्रे वर्णं प्रति स वै तदा ।
हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् ॥
तामाशां हृदये कृत्वा समाश्वस्य च भारत ।
[ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः ।
प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शूभम् ॥]
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ॥
`प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम्' ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥
कर्ण जानामि ते वीर्यं सौहृदं परमं मयि ।
तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते ।
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥
भीष्मद्रोणावतिरथौ हतौ सेनापती मम ।
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥
वृद्धो च तौ महेष्वासौ सापेक्षो च धनञ्जये ।
मानितौ च मया वीरौ राधेय वचनात्तव ॥
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे ।
रक्षितास्तात भीष्मेण दिवसानि दशैव तु ॥
न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः ।
शिखण्डिनं पुरुस्कृत्य फल्गुनेन महाहवे ॥
हते तस्मिन्महेष्वासे शरतल्पगते तथा ।
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥
तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः ।
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥
निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम ।
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥
भवानेव तु नः शक्तो विजयाय न संशयः ।
पूर्वं मध्ये च पश्चाश्च तथैव विहितं हितम् ॥
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोऽढुमर्हति ।
अभिषेचय सैनान्ये स्वयमात्मानमात्मना ॥
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः ।
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै ॥
जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव ।
अवस्थितं रमे दृष्ट्वा पाण्डवास्त्वां महारथाः ।
द्रविष्यन्ति च पाञ्चाला विष्णुं दृष्ट्वेव दानवाः ॥
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम् ॥
भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः ।
द्रविष्यन्ति सहामात्याः पाञ्चालाः सृञ्जयाश्च ह ।
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा ।
व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय ॥
सञ्जय उवाच ।
एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह ।
राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः ।
हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः ॥
कर्ण उवाच ।
उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ ।
जेष्यामि पाण्डवान्सर्वान्सपुत्रान्सजनार्दनान् ॥
सेनापतिर्भविष्यामि तवाहं नात्र संशयः ।
स्थिरो भव महाराज जितान्विद्वि च पाण्डवान् ॥
सञ्जय उवाच ।
एवमुक्तो महाराज ततो दुर्याधनो नृपः ।
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥
सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ।
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा ॥
दुर्योधनमुक्ता राजन्राजानो विजयैषिणः ।
शातकुम्भमयैः कुम्भेर्माहेयैश्चाभिमन्त्रितैः ॥
तोयपूर्णैर्विषाणैश्च द्विपखङ्गमहर्षभैः ।
मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥
औदुम्बरे सुखासीनमासने क्षौमसंवृते ।
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ॥
ब्राह्मणः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः ।
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने ॥
ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च ।
वाचयामास विप्राग्र्यान्राधेयः परवीरहा ॥
`स व्यरोचत राधेयः सूतमागधबन्दिभिः ।
स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः ॥
ततः पुण्याहघोषेण वादित्रनिनदेन च ।
जयशब्देन शूराणां तुमुलः सर्वतोऽभवत् ॥
जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र सङ्गताः' ॥
जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे ।
इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम् ॥
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः ।
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥
न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः ।
उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः ।
आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः ॥
`सञ्जय उवाच ।
स सत्कृतः स्तूयमानः सुहृद्गणवृतो रुषा ।
कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम् ॥
दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह ।
फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम् ॥
सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम् ।
पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यमि ॥
नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम ।
सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥
अभिषिक्तस्तु राघेयः प्रभया सोऽमितप्रभः ।
अत्यरिच्यत रूपेण दिवाकर इवापरः ॥
सैनापत्ये तु राधेयमभिषिच्य सुतस्तव ।
अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥
कर्णोऽपि राज्ञः संप्राप्य सैनापत्यमरिन्दमः ।
योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत ।
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
8-7-3 स्वबलम्प्रति विद्रुतं दृष्ट्वा ॥ 8-7-5 लब्धलक्षैः
प्राप्ताजयैः । व्यायच्छद्भिः यतमानैः । प्रत्याहारं प्रत्यक्हारम् ।
प्रत्यहारमिति वा पाठः ॥ 8-7-9 पर्यङ्केष्वेव वरासनेषु ॥ 8-7-11 कार्यतरं
आवश्यकतरं यत्कार्यं कर्तव्यं परं मतं सम्मतं तत् प्रब्रूत ॥ 8-7-12 चेष्टाः
शौर्याभिनयरूपाः भुजास्फालनाद्याः ॥ 8-7-13 निशाम्य आलोच्य । वर्चसं
छान्दसष्टच् ॥ 8-7-14 रागः स्वामिभक्तिः । योगो देशकालादिसम्पत्तिः । दाक्ष्यं
बलम् । नयो नीतिः ॥ 8-7-16 सर्वार्थैः रागादिभिः सुनीतैः दैवमनुलोम्यतेऽनुकूलं
क्रियते । न केवलं रागाद्यपेक्षया दैवस्य प्राबल्यमपितु दैवापेक्षयापि सुप्रणीता
रागादयः प्रबला इत्यर्थः ॥ 8-7-21 बहुमतीं वाहुल्यवतीं अतिशयितामिति यावत् ॥ 8-7-22 शुभं वचः श्रुत्वा मनः समवस्थाप्य समाधायाब्रवीदिति द्वयोः सम्बन्धः ॥ 8-7-27 ताभ्यां सकाशात् द्रविणवत्तरः बलवत्तरः ॥ 8-7-34 विहितं त्वयेति शेषः ॥ 8-7-35 सैनान्ये सेनानीत्ये ॥ 8-7-46 शातकुम्भमयैः सौवर्णैर्माहेयैर्महीमयैश्च
कुम्भैः ॥ 8-7-47 विषाणैः द्विपस्य गजस्य दन्तमयैः पात्रैः । खङ्गस्य गण्डकस्य ।
महर्षभस्य गवयस्य च शृङ्गैः । विषाणं दन्तशृङ्गयोरिति विश्वः ।
द्विपखङ्गमहर्षभीयैरिति तद्धितलोप आर्षः ॥ 8-7-56 शराणां दर्शनेपि नालं किमुत
स्पर्शे इत्यर्थः ॥ 8-7-7 सप्तमोऽध्यायः ॥
श्रीः