अध्यायः 014

सहदेवेन दुःशासनपराजयः ॥ 1 ॥

सञ्जय उवाच ।
सहदेवं तथा क्रुद्धं निघ्नन्तं तव वाहिनीम् ।
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥
तौ समेतौ महाराज दृष्ट्वा तत्र महारथाः ।
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥
ततो भारत रुष्टेन तव पुत्रेण धन्विना ।
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥
सहदेवस्ततो राजन्नाराचेन तवात्मजम् ।
विद्व्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरैः ॥
दुःशासनस्ततश्चापं छित्त्वा राजन्महाहवे ।
सहदेवं त्रिसप्तत्या बाहोरुरसि चार्पयत् ॥
सहदेवस्तु सङ्क्रुद्धः खङ्गं गृह्य महाहवे ।
आविध्य प्रासृजत्तूर्णं तव पुत्रथं प्रति ॥
समार्गणगुणं चापं छित्त्वा तस्य महानसिः ।
निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥
अथान्यद्धनुरादाय सहदेवः प्रतापवान् ।
दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥
तमापतन्तं विशिखं यमदण्डोपमत्विषम् ।
खङ्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥
ततस्तं निशितं खङ्गमाविध्य युधि सत्वरः ।
धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान् ॥
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः ।
पातयामास समरे सहदेवो हसन्निव ॥
ततो बाणांश्चतुः षष्टिं तव पुत्रो महारणे ।
सहदेवरथं तूर्णं प्रेषयामास भारत ॥
ताच्छरान्समरे राजन्वेगेनापपतो बहून् ।
एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृतन्तत ॥
सन्निवार्य महाबाणान्सहदेवः प्रतापवान् ।
अथास्मै सुबहून्बाणान्प्रेषयामास संयुगे ॥
तान्वाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः ।
ननाद सुमहानादं नादयानो वसुंधराम् ॥
ततो दुःशासनो राजन्द्वाभ्यां पाण्डुसुतं रणे ।
सारथिं नवभिर्बाणैर्माद्रोयस्य समाचिनोत् ॥
ततः क्रुद्धो महाराज सदहेवः प्रतापवान् ।
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ॥
विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ।
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ॥
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः ।
ततः सम्मुमुहे राजंस्तव पुत्रो महारथः ॥
मूढं चैनं समालोक्य सारथिस्त्वरितो रथम् ।
अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ॥
पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः ।
दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः ॥
पिपीलिकपुटं राजन्यथा मृद्गन्नरो रुषा ।
तथा सा कौरवी सेना मृदिता तेन भारत ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥

8-14-1 आदुधुषुः भ्रामितवन्तः ॥ 8-14-22 पिपीलिकपुटं पिपीलिकावासपटलम् ॥ 8-14-14 चतुर्दशोऽध्यायः ॥

श्रीः