अध्यायः 016

युयुत्सूलूकयोर्युद्धम् ॥ 1 ॥ शकुनिसुतसोमयोर्युद्धम् ॥ 2 ॥

सञ्जय उवाच ।
युयुत्सं तव पुत्रस्य द्रावयन्तं बलं महत् ।
उलूको न्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥
युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा ।
उलूकं ताडयामास वज्रेणेव महाबलम् ॥
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥
तदपास्य धनुश्छिन्नं युयुत्सर्वेगवत्तरम् ।
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥
शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ ।
सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत ॥
उलूकस्तं तु विंशत्या विद्व्वा स्वर्णविभूषितैः ।
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।
पपात प्रमुखे राजन्युयुत्सोः काञ्चनध्वजः ॥
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः ।
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥
उलूकस्तस्य समरे तैलधौतेन मारिष ।
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम ॥
तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा ।
तारारूपं यथा चित्रं निपपात महीतले ॥
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।
सोऽतिविद्वो बलवता प्रत्यपायाद्रथान्तरम् ॥
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥
शतानीकं महाराज श्रुतकर्मा सुतस्तव ।
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः ॥
हताश्वे तु रथे तिष्ठञ्शतानीको महारथः ।
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।
पपात धरणीं तूर्णं दारयन्तीव भारत ॥
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।
व्यपाक्रमेतां युद्वात्तु प्रेक्षमाणौ परस्परम् ॥
पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमारुहत् ।
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥
सुतमोमं तु शकुनिर्विद्व्वा तु निशितैः शरैः ।
नाकम्पयत सङ्क्रुद्वो वार्योघ इव पर्वतम् ॥
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।
शरैरनेकसाहस्रैश्छादयामास भारत ॥
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥
निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥
`नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम्' । तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः ।
श्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः ॥
हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष ।
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् । छादयामासुरथ ते तव श्यालस्य तं रथम् ।
शळभानामिव व्राताः शरव्राता महारथम् ॥
सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः ।
प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः ॥
तत्रातुष्यन्त योधाश्च सिद्वाश्चापि दिवि स्थिताः । सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्वेयमद्भुतम् ।
रथस्थं शकुनिं यत्तु पदातिः समयोधयत् ॥
तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः ।
व्यहनत्कारामुकं राजंस्तूणीरांश्चैव सर्वशः ॥
स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत् ।
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम् ॥
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।
कालदण्डोपमं मेने सुतसोमस्य धीमतः ॥
सोऽचरत्सहसा खङ्गी मण्डलानि सहस्रशः ।
चतुर्दश महाराज शिक्षाबलसमन्वितः ॥
भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
सम्पातसमुदीर्णे च दर्शयामास संयुगे ॥
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।
तानापतत एवाशु चिच्छेद परमासिना ॥
ततः क्रुद्धो महाराज सौबलः परवीरहा ।
प्राहिणोत्सुतसोमाय शरानाशीविषोपमान् ॥
चिच्छेद तांस्तु खङ्गेन शिक्षया च बलेन च ।
दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः ॥
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा ।
क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम् ॥
स च्छिन्नः सहसा भूमौ निपपात महानसिः ।
अधर्मस्य स्थितं हस्ते सुत्सरोस्तत्र भारत ॥
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥
तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम् ॥
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ।
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुर्जयम् ॥
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ।
तत्र नादो महानासीत्पाण्डवानां विशाम्पते ॥
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् । तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ।
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥
यथा दैत्यचमूं राजन्देवराजो ममर्द ह ।
तथैव पाण़्वीं सेनां सौबलेयो व्यनाशयत् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥

8-16-35 मण्डलानामावर्तने अनुलोमविलोमाभ्यासे ॥ 8-16-36 असेः सुत्सरोः शोभनमुष्टेः ॥ 8-16-16 षोडशोऽध्यायः ॥

श्रीः