अध्यायः 024

दुर्योधनेन शल्यम्प्रति त्रिपुरासुरकथाकथनारम्भः ॥ 1 ॥ त्रिपुरासुरोपद्रुतैर्देवैः स्तुल्या रुद्रप्रसादनम् ॥ 2 ॥

दुर्योधन उवाच ।
भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु ।
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो ॥
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः । ब्रुवतस्तदशेषेण मम राजर्षिसत्तम ।
निबोध मनसा चात्र न ते कार्या विचारणा ॥
`समुत्पन्नो हि राजानः प्रमोह इति निश्चयम् ।
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् ॥
देवानामसुराणां च महानासीत्समुच्छ्रयः । सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन् ।
ते निरस्तः कृता देवैर्दानवा बलगर्विताः' ॥
तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः ।
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः ॥
भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा ॥
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥
तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः ॥
दमेन तपसा चैव नियमेन समाधिना ।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥
अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा ।
सहिता वरयामासः सर्वलोकपितामहम् ॥
तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः । नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः ।
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः ॥
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः ।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन् ॥
वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम् ।
सर्वकामसमृद्वार्थमवध्यं देवदानवैः ॥
यक्षरक्षोरगगणैर्नानाजातिभिरेव च । न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम् ।
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह ॥
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥
ततो वर्षसहस्रेषु समेष्यामः परस्परम् ।
एकीभावं गभिष्यन्ति पुराण्येतानि चानघ ॥
समागतानि चैतानि यो हन्याद्भगवांस्तदा ।
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥
दुर्योधन उवाच ।
तेषां तद्वचनं श्रुत्वा दानवानां पितामहः ।
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् । पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः ।
विश्वकार्माणमजरं दैत्यदानवपूजितम् ॥
ततो मयः स्वतपसा चक्रे धीमान्पुराणि च ।
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा ॥
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भौमं तदा तेषां परन्तप ॥
एकैकं योजनशतं विस्तृतं तावदायतम् ।
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम् ॥
गृहप्रवरसम्बाधमसम्बाधमहापथम् ।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम् ॥
त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक् ।
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम ॥
काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः ।
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा ।
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ॥
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।
कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥
मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा ।
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥
सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः ।
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः ॥
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।
तस्मै तस्मै मयस्तं तं विदधे मायया तदा ॥
तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः ।
तपस्तेपे परमकं येनातुष्यत्पितामहः ॥
सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे ।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो ॥
येन रूपेण यो दैत्यो येन वेषेण चाप्यथ । क्षिप्यते निहतो वाप्यां तादृशेनैव जायते ।
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः ॥
एवं वीर्येण संयुक्तां कृतां तेन महात्मना ।
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे ॥
महता तपसा सिद्धाः सुराणां भयवर्धनाः । एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान् ।
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन ॥
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः ॥
विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा ।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥
देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम् । ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा ।
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः ॥
निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह ।
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः ॥
पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः ।
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः ॥
नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः ।
पुराणि वरदत्तानि धात्रा तेन नराधिप ॥
तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ । तैरेव विबुधैः सार्धं पितामहमरिन्दम ।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः ॥
ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च ।
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन् ॥
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् ॥
दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम ।
न शक्नुवन्ति ते (ये) सर्वे युष्मान्वै पीडयन्ति ते ॥
अहं समस्तु सर्वेषां भूतानां नात्र संशयः ।
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः ॥
एकेषुणा (हि) विभेद्यानि तानि दुर्गाणि नान्यथा ।
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः ॥
ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम् ।
योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान् ॥
ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः । दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः ।
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम् ॥
ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः ।
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम् ॥
अनङ्गमथनं सर्वे भवं सर्वात्मना गताः ।
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम् ॥
शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम् । तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम् ।
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना ॥
तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः ।
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा ॥
तं ते ददृशुरीशानं तेजोराशिमुमापतिम् । `परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्' ।
अनन्यसदृशं लोके प्रतपन्तमकल्मषम् ॥
एकश्च भगवांस्तत्र नानारूपमकल्पयत् । आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ।
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥
सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम् ।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥
तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः ।
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः ।
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम् ॥
नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे ।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते ॥
नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे ।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥
अमोघाय मृगाक्षाय प्रवरायुधयोधिने ।
अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च ॥
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ।
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे ॥
तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे ।
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ॥
प्रपन्नार्तिविनाशाय ब्रह्मद्विट््सङ्घघातिने ।
वनस्पतीनां पतये वनानां पतये नमः ॥
गवां च पतये नित्यं यज्ञानां पतये नमः । नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे ।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च ।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥
`देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः' ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

8-24-2 पितुः पुरतः । मह्यं मम ॥ 8-24-5 तारकामयः तारकासुर एवामयो रोगवत्पराभवहेतुर्यत्र स तथा ॥ 8-24-60 ईड्यते ईड्यमानाय । कर्मणीदमपौरुषम् ॥ 8-24-66 भजस्व इष्टैः कामैः पूरयस्व ॥ 8-24-68 व्येतु व्यपगच्छतु ॥ 8-24-24 चतुर्विंशोऽध्याय ॥

श्रीः