अध्यायः 032

कर्णेन स्वस्यार्जुनप्रदर्शकाय तदभिमतपारितोषिकप्रदानप्रतिज्ञानम् ॥ 1 ॥

सञ्जय उवाच ।
प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव ।
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति ॥
न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः ।
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् ॥
शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने । तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम् ।
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम् ॥
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् ।
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान् ॥
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् ।
ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान् ॥
तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् ।
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान् ।
सुदान्तानपि चैवाहं दद्यामष्टादशापरान् ॥
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् ।
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट् ॥
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ।
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश ॥
सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान् ।
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश ॥
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा ।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥
पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे ।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति ॥
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥
सञ्जय उवाच ।
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि ।
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम् ॥
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत् ॥
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा ।
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः ॥
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ ।
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ॥
तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम् । विकत्थमानं च तदा राधेयमरिकर्शनम् ।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

8-32-3 अभिमन्येत अल्पमित्यवजानीत ॥ 8-32-5 अञ्जनकेशीभिः कृष्णकेशीभिरश्वतरीभिर्युवतीभिर्वा युक्तम् ॥ 8-32-6 हस्तिषङ्गवं हस्तिषट्कम् षट्रत्वे षङ्गवजित्यनेन षङ्गवच्प्रत्ययः । हस्तिषङ्गवमिच्छन्ति वीराः षट्के च दन्तिनामिति प्राञ्चः । अन्यं वा सौवर्णरथमिति शेषः । हस्तितुल्याः षट् गाव उक्षाणो यस्मिन् तम् । षट््हस्तिन एव गोवत् वोढारो यस्य तादृशम् ॥ 8-32-7 श्यामानामप्रजातानाम् । निष्कमुरोभूषणम् ॥ 8-32-9 शतंशतान्दशसहस्राणि । ऋद्व्या पुष्ट्या । सुदान्तान् विनीतान् । धुर्यवाहान् रथोद्वहनक्षमान् ॥ 8-32-12 भाण्डमाभरणम् ॥ 8-32-15 अपरान्तेषु पश्चिमकच्छेषु ॥ 8-32-18 प्रत्यग्रवयसामभिनवयौवनानाम् ॥ 8-32-26 प्लवमानं प्रयान्तम् ॥ 8-32-32 द्वात्रिंशोऽध्यायः ॥

श्रीः