अध्यायः 034
कर्णेन मर्मोद्धाटनपूर्वकं शल्यगर्हणम् ॥ 1 ॥
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा ।
शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन् ॥
कर्ण उवाच ।
गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः ।
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान् ॥
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् ।
अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥
तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम् ।
यथाहं शल्य जानामि न त्वं जानासि तत्तथा ॥
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे ।
जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ॥
अस्ति चाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः ।
एकस्तूणीशयः पत्री सुधौतः समलङ्कृतः ॥
शेते चन्दनचूर्णेन पूजितो बहुलाः समाः ।
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ॥
घोररूपो महारौद्रस्तनुत्रास्थिविदारणः ।
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते ।
कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे ॥
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ ।
योत्स्ये परमसंरब्धौ तत्कर्म सदृशं मम ॥
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ।
उभयं तु समासाद्य को निवर्तितुमर्हति ॥
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ ।
मामेकमभिसंयुद्धौ सुजातं पश्य शल्य मे ॥
पितृष्वसामातुलजौ भ्रातरावपराजितौ ।
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ ।
भीरूणां त्रासजननं शल्य हर्षकरं मम ॥
त्वं तु दुष्प्रकृतिर्मूढो महायुद्वेष्वकोविदः ।
भयावदीर्णः सन्त्रासादबद्धं बहुः भाषसे ॥
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज ।
तौ हत्वा समरे हन्ता त्वामद्य सह बान्धवम् ॥
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन ।
सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि ॥
तौ वा मामद्य हन्तारौ हनिष्ये वाऽपि तावहम् ।
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥
वासुदेवसहस्रं वा फल्गुनानां शतानि वा ।
अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥
स्त्रियो बालाश्च वृद्वाश्च प्रायः क्रीडागता जनाः ॥
या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा ।
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ ।
श्रुत्वा चैकमना मूढ मम वा ब्रूहि चोत्तरम् ॥
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः ।
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥
दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः ।
यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥
पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः ।
भगिनी दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः ॥
वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः ।
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥
येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा ।
पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च ॥
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः ।
कामप्रलापिनोऽन्योन्यं तेषु धर्मःकथं भवेत् ॥
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु ।
नापि वैरं न सौहार्दं मद्रकेण समाचरेत् ॥
मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः ।
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च ॥
राजयाजकयाज्ये हि यथा दत्तं हविर्नशेत् ।
शूद्रसंस्कारको विप्रो यथा याति पराभवम् ॥
यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ।
यथैव संगतं कृत्वा नरः पतति मद्रकैः ॥
बालेष्वपि सदा न स्म धनं वृश्चिक ते विषम् ।
आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया ॥
इति वृश्चिकदष्टस्य विषवेगहतस्य च ।
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥
एवं विद्वञ्जोषमास्स्व ब्रूहि चात्रोत्तरं वचः ।
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः ॥
मैथुनेऽसङ्गताश्चापि यथाकामवराश्च ताः ।
तासां पुत्र कथं धर्मं मद्रको वक्तुमर्हति ॥
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः ।
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः ।
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥
सौवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ ।
अदातुकामा वचनमिदं वदति दारुणम् ॥
मा मां सौवीरकं कश्चिद्याचतां दयितं मम ।
पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम् ॥
गौर्यो बृहत्यो निर्हीका मद्रिकाः कम्पलावृताः ।
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥
पमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः ।
शुद्धा नाद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि ॥
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु ।
आकेशान्तान्नखाग्राच्च वक्तव्येषु कुकर्मसु ॥
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह ।
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ।
यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥
आयुधानां साम्पराये यन्मुञ्चेयमहं ततः ।
ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥
सोयं प्रियसखा चास्मि धार्तराष्ट्रस्य धीमतः ।
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज ।
यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि ।
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च ।
नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः ॥
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् ।
या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे ॥
स्वेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि ।
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप ।
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे ।
न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम् ॥
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः ।
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि ।
शिरस्ते पातयिष्यासि गदया वज्रकल्पया ॥
श्रोतारस्त्विदमद्येह द्रष्टारो व्रा कुदेशज ।
कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ ॥
एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते ।
अब्रवीन्मद्रराजानं याहियाहीत्यसम्भ्रमम् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
8-34-7 आहेयः सर्पमयः ॥ 8-34-9 नास्येयं न क्षिपेयम् ॥ 8-34-12 सुजातं शोभनं जन्म ॥ 8-34-13 प्रोतौ एकसूत्रे मणीइव प्रेमसम्बद्धौ ॥ 8-34-19 जोषं तूष्णीम् । आस्स्व तिष्ठ ॥ 8-34-20 क्रीडागताः लीलया आगताः ॥ 8-34-21 मद्रकेषु कुत्सितेषुमद्रदेशेषु ॥ 8-34-22 क्षम वा ब्रूहि चोत्तरम् इति
झ.पाठः ॥ 8-34-24 अनृतेन चरतीत्यानृतिकः ॥ 8-34-26 पुम्भिः पुरुषैः विमिश्राः
सङ्गताः । इच्छया मैथुनिनोऽज्ञातवत् ज्ञाता अप्यविगीता इत्यर्थः ॥ 8-34-27 येषां
मद्रकाणां सक्तुमिश्रितमत्स्याशिनाम् । शीधु मद्यम् ॥ 8-34-30 मद्रकेषु संसृष्टं
नष्टं एवं गान्धारकेषु शौचं नष्टं भवेत् ॥ 8-34-31 राजा याजको यस्य
तस्मिन्याज्ये हविर्नष्टं भवेत् ॥ 8-34-32 यथैवेति । यथा मद्रकैः सङ्गतं कृत्वा
पतति हेवृश्चिक तथा ते विषं हतमित्यध्याहारः । यद्येतत्सत्यं तर्हि तव विषं
नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः । मयेत्यात्मानुभवसिद्धमिदमिति
द्योतयति ॥ 8-34-33 यथैवेति । यथा मद्रकैः सङ्गतं कृत्वा पतति हेवृश्चिक तथा ते
विषं हतमित्यध्याहारः । यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा
विषं नश्यतीत्यर्थः । मयेत्यात्मानुभवसिद्धमिदमिति द्योतयति ॥ 8-34-36 यथाकामं
वरयन्तिताः । मैथुने सङ्गता याश्च तथा कामकराश्च ह । तासां पुत्रो मम कथं मद्रको
योगमर्हति । इति क.पाठः यथेळकाः इति ट. पाठः ॥ 8-34-37 प्रमेहन्ति मूत्रयन्ते ।
दशेरकाः गर्दभाः । यथैवोष्ट्रा यथेळकाः इति ट.पाठः ॥ 8-34-38 सुवीरकं काञ्जिकम् ।
स्फिचौ कटिप्रोथौ ॥ 8-34-40 निर्हीकाः निर्लज्जाः । घस्मराः बहुभक्षकाः ॥ 8-34-42 वक्तव्येषु गर्हणीयेषु ॥ 8-34-45 साम्पराये समूहे सङ्ग्राये इत्यर्थः ।
मुञ्जेयं जीवितमिति शेषः ॥ 8-34-47 उपहितः उपजप्त ॥ 8-34-49 सारङ्ग इव
घर्मान्ते इति क.ड.पाठः ॥ 8-34-54 अपवादो निन्दा तितिक्षा च
तैस्त्रिभित्रहितुभिः ॥ 8-34-34 चतुस्त्रिंशोऽध्यायः ॥
श्रीः