अध्यायः 037

कर्णेन सोपहासं शल्यगर्हणम् ॥ 1 ॥

सञ्जय उवाच ।
ततः पुनर्महाराज मद्रराजमरिन्दमः ।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः ॥
निर्भर्त्सनार्थं शल्य त्वं यत्तु जल्पितवानसि ।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥
यदि मां देवताः सर्वा योधयेयुः सवासवाः ।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥
नाहं भीषयितुं शक्यः शुद्धकर्णा महाहवे ।
अभिजानीहि शक्तस्त्वमन्यं भीषयितुं रणे ॥
नीचस्य बलमेतावत्पारुष्यं यतत्त्वमात्थ माम् ।
अशक्तो हि गुणान्वक्तुं वल्गसे बहु दुर्मते ॥
न हि कर्णः समुद्भूतो भयार्थमिह मद्रक ।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः ॥
सखिभावेन सौहार्दान्मितत्रभावेन चैव हि ।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम् ॥
राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम् ।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम् ॥
कृतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव ।
`समयः परिपाल्यो मे तेन जीवसि साम्प्रतम्' ॥
ऋते शल्यसहस्रेण विजयेयमहं परान् ।
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम् ॥
शल्य उवाच ।
आर्तप्रलापांस्त्वं कर्ण यान्ब्रवीषि परान्प्रति ।
न ते कर्णसहस्रेण शक्या जेतुं परे युधि ॥
सञ्जय उवाच ।
तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा ।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम् ॥
इदं त्वमेकाग्रमनाः शृणु मद्रजनाधिप ।
सन्निधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् ।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने ॥
तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः ।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥
बहिष्कृता हिमवतता गङ्गया च तिरस्कृताः ।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।
तान्धर्मबाह्यानशुचीन्बाह्लीकानपि वर्जयेत् ॥
गोवर्धनो नाम वटः सुभाण्डं नाम पत्तनम् ।
एतद्राजन्कलिद्वारमाकुमारात्स्मराम्यहम् ॥
कार्येणात्यर्थगूढेन बाह्लीकेषूषितं मया ।
तत एषां समाचारः संवासाद्विदितो मया ॥
शाकलं नाम नगरमापगानामनिम्नगा ।
चण्डाला नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥
पानं गुडासवं पीत्वा गोमांसं लशुनैः सह ।
अपूपसक्तुमद्यानामाशिताः शीलवर्जिताः ॥
गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः ।
नगरापणवेशेषु बहिर्माल्यानुलेपनाः ॥
मत्ताः प्रगीतविरुतैः खरोष्ट्रनिनदोपमैः ।
अनावृता मैथुने ताः कामचाराश्च सर्वशः ॥
आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कxxxः ।
हेहतेहेहतेत्येवं स्वामिभर्तृहतेति च ॥
आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः ।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले ॥
कश्चिद्बाह्लीकदुष्टानां नातिहृष्टमना जगौ ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी ॥
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् । शतद्रुं नु कदा तीर्त्वा तां च रम्यामिरावतीम् ।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलजङ्घाः शुभाः स्त्रियः ॥
मनःशिलोज्ज्वलापाङ्ग्यो गौर्यस्ताः काकुकूजिताः ।
कम्बलाजिनसंवीता रुदन्त्यः प्रियदर्शनाः ॥
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः ।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु ।
अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान् ॥
पथिषु प्रबलो भूत्वा तथा सम्पततोऽध्वगान् ।
चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः ॥
एवंशीलेषु व्रात्येषु बाह्लीकेषु दुरात्मसु ।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥
कर्ण उवाच ।
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः ।
येषां षड्भागहर्ता त्वमुभयोः पुण्यपापयोः ॥
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोध तत् ॥
ततत्र स्म राक्षसी गाति कृष्णचतुर्दशीम् ।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥
कथं वस्तादृशो गाथाः पुनर्गास्यामि शाकले ।
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम् ॥
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृता ।
पलाण्डुगण्डूषयुताः खादन्तश्चेशिकान्बहून् ॥
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् ।
धानाश्च ये न खादन्ति तेषां जन्म निरर्थकम् ॥
एवं गायन्ति ये मत्ताः शीधुना पीलुकावने ।
सबालवृद्धाः क्रन्दन्ति तेषां धर्मः कथं भवेत् ॥
यत्र लोकेश्वरः कृष्णो देवदेवो जनार्दनः ।
विस्मृतः पुरुषैरुग्रैस्तेषां धर्मः कथं भवेत् ॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥
पञ्चनद्यो वहन्त्येता यत्र पीलुवनान्युत ।
शतद्रुश्च विपाशा च तृतीयैरावती तथा ॥
चन्द्रभागा वितस्ता च सिन्धुषष्ठा महानदी ।
आरट्टा नाम बह्लीका एतेष्वार्यो हि नो वसेत् ॥
व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ।
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा ॥
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ।
ब्राह्मणेन यथा प्रोक्तं विदुषा साधुसंसदि ॥
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ।
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः ॥
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च ।
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥
पात्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः ।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि ॥
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥
पञ्चनद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥
बाह्लीका नाम हीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥
ते कथं विविधान्धर्माञ्ज्ञास्यन्ते हीनयोनयः ॥
कारस्करान्माहिषकान्करम्भान्कटकालिकान् ।
कर्करान्वीरकान्वीरा उन्मत्तांश्च विवर्जयेत् ॥
इति तीर्थानुसञ्चारी राक्षसी काचिदब्रवीत् ।
एकरात्रमुषित्वेह महोलूखलमेखला ॥
आरट्टा नाम ते देशा बाह्लीकं नाम तद्वनम् ।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

8-37-8 एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना ॥ 8-37-17 पञ्चानां वक्ष्यमाणानाम् । सिन्धुः षष्ठी यासाम् । अन्तरमवकाशमाश्रिताः ॥ 8-37-18 गोवर्धनः गवां छेदनस्थानम् ॥ 8-37-20 वृत्तं चरित्रम् ॥ 8-37-23 अनावृताः स्वपरपुरुषविवेकहीनाः ॥ 8-37-24 सूक्तानि विनोदवचनानि । हेहते भोलिङ्गताडिते xxxक्रोशे द्वित्वम् । संधिश्छान्दसः । स्वामिहते भर्तृहते इति च तद्वत् ॥ 8-37-25 पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः । तासां पतिरिति शेषः ॥ 8-37-29 खरादियानैः ॥ 8-37-30 मथितं तक्रम् ॥ 8-37-31 भूयसः बहून् ॥ 8-37-38 वाराहं विड््वाहजम ॥ 8-37-37 सप्तत्रिंशोऽध्यायः ॥

श्रीः