अध्यायः 038

शल्यकर्णयोर्वाक्कलहः ॥ 1 ॥ दुर्योधनेन तयोः सान्त्वनम् ॥ 2 ॥

कर्ण उवाच ।
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु ॥
ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः ।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत् ॥
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः ॥
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः ॥
अटता तु मया देशान्नानाधर्मसमाकुलान् ।
आगच्छता महाराज बाह्लीकेषु निशामितम् ॥
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः ।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते ॥
भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः ।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः ॥
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् ।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं ॥
आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः ।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः ॥
न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः ।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि ॥
कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः ।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा ॥
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते ॥
आमत्स्येभ्यः कुरुपाञ्चालसाल्वा आनैमिशाच्चेदयो ये विशिष्टाः ।
धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पाञ्चनदांश्च जिह्मान् ॥
एवं विद्वान्धर्मकथासु राजं-- स्तूष्णींभूतः शल्य भवेः सदा त्वम् ।
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥
अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक् ॥
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम् ।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत् ॥
इति पाञ्चनदं धर्मवमेने पितामहः ।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत् ॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
कल्माषपादः सरसि निम़ज्जन्राक्षसोऽब्रवीत् ॥
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम् ।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम् ॥
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् ।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप ॥
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम् ।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः ॥
राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम् ॥
ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः सत्या मत्स्याः शूरसेनाश्च याज्याः ।
प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः ॥
कृतघ्नता परवित्तापहारो मद्यपानं गुरुदारावमर्दः ।
वाक्पारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः ॥
येषां धर्मस्तान्प्रति नास्त्यधर्मो ह्यारट्टजान्पाञ्चनदान्धिगस्तु ।
आपाञ्चालाः कुरवो नैमिशाश्च मत्स्याश्चैवाप्यनुजानन्ति धर्मम् । अथोदीच्याश्चोदयो भागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा ॥
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून् ।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह ॥
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः ।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः ॥
इङ्गित5आश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः ॥
पार्वतीयाश्च विषया यथैव गिरयस्तथा । सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः ।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः ॥
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः ।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥
एवं ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म क्रुद्धः पापभृतां वरिष्ठ ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च पश्चाद्धंस्ये वासुदेवार्जुनौ च ॥
शल्य उवाच ।
आतुराणां परित्यागः स्वदारसुतविक्रयः ।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान् ॥
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत् ।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह ।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम् ॥
परवाच्येषु निपुणः सर्वो भवति सर्वदा ।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति ॥
सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः ।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः ॥
न कर्ण देशसामान्यात्सर्वः पापं निषेवते ।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः ॥
सञ्जय उवाच ।
तततो दुर्योधनो राजा कर्णशल्याववारयत् ।
सखिभावेन राधेयं शल्यं सौजन्यकेन च ॥
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष ।
प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

8-38-5 निशामिर्त श्रुतम् ॥ 8-38-6 ब्राह्मणो भूत्केत्यादि तज्जातीयकर्माचरणनिवन्धनम् ॥ 8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः ॥ 8-38-9 तत्र बाह्लीकेषु । धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम् । विपर्ययो विहितवैपरीत्यम् ॥ 8-38-20 कृते कृतयुगे ॥ 8-38-21 नाभ्यपूजयत् न प्रशंसितवान् ॥ 8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः । म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः । षंढा वर्षवराः ॥ 8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु ॥ 8-38-28 प्राच्या दासाः शूद्रधर्माणः । दाशा इति पाठे मत्स्यजीविनः । वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा ॥ 8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि ॥ 8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाम्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते ॥ 8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम् । परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः ॥ 8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम् । गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः । एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः ॥ 8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति । अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः ॥ 8-38-35 विषमाः दुःखसाध्याः । सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसंकेतस्तत्रैव नियताः । वैदिकं धर्मं न मानयन्तीत्यर्थः । इतरे त्वनुक्तं हितं नावबुध्यन्ते ॥ 8-38-36 प्रतिरथा इतिपाठे हितवादिति प्रतिकूलाः । गुरुद्रोहिण इत्यर्थः । तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः ॥ 8-38-38 अष्टत्रिंशोऽध्यायः ॥

श्रीः