अध्यायः 039

शल्यकर्णयोः संवादः ॥ 1 ॥ सेनाद्वयस्य परस्परमेलनम् ॥ 2 ॥

सञ्जय उवाच ।
ततः परानीकभिदं व्यूहमप्रतिमं कृतम् ।
समीक्ष्य कर्णः पार्थानां धृष्टधुम्नाभिरक्षितम् ॥
प्रययौ रथघोषेण सिंहनादरवेण च ।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥
सञ्जय उवाच ।
ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव ।
अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ ॥
चमूं तवेमां विपुलां समृद्वा-- मसङ्खेयामश्वनराकुलां च ।
तथा प्रवेष्टा समरे धनञ्जयः कक्षं दहन्दीप्त इवाश्रयाशी ॥
रथे स्तितौ वीरवरौ वरेण्यौ सिंहस्कन्धौ लोहितपद्मनेत्रौ ।
द्रष्टा भवानद्य विना प्रयत्ना-- त्तथाहि मे शकुना वेदयन्ति ॥
अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम् ।
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ॥
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ ।
वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ ॥
सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम् ।
तं चेद्वन्ताऽसि राधेय त्वं नो राजा भविष्यसि ॥
प्रवात्येष महावायुरभितस्तव वाहिनीम् ।
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥
पश्य कर्ण महाघोरं भयं वै रोमहर्षणम् ।
अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति ॥
पश्य यूथं मृगशतं मृगाणां सर्वतोदिशम् ।
ररास दीप्तलाङ्गूलमादित्यामभि संस्थितम् ॥
पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः ।
आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः ॥
श्वेतवाजिसमायुक्ते तव कर्ण महारथे ।
पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते ॥
उदीर्यतो हयान्पश्य महाकायान्महाजवान् ।
प्लवमानान्महावीर्यानाकाशे गरुडानिव ॥
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः ।
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥
शङ्खानां तुमुलः शब्दः श्रूयते रोमहर्षणः ।
आनकानां च राधेय मृदङ्गानां च हन्यताम् ॥
शृणु शब्दान्बहुविधान्नराश्वरथवाजिनाम् ।
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः ।
सहेमचन्द्रताराभाः पताकाः किङ्गिणीयुताः ॥
नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः ।
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥
ध्वजाः कणकणायन्ते वातेनातिसमीरिताः ।
सपताकरथाश्चापि पाञ्चालानां महात्मनाम् ॥
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ।
गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी ॥
श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा । पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम् ।
प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम् ॥
गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः ।
ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते ॥
एष संशप्तकान्भूयस्तानेवाभिमुखो गतः ।
करोति कदनं चैष सङ्गामे द्विषतां बली ॥
सञ्जय उवाच ।
इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान् ॥
पश्य संशप्तकैः क्रुद्धैः समन्तात्समभिद्रुतः । एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ।
एष दान्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥
शल्य उवाच ।
वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम् ।
कोवाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥
ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम् ।
न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि ॥
अथैघं परितोषस्ते वाग्भिस्त्वं सुमाना भव ।
न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत् ॥
पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम् ।
प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥
अमर्षी पुरुषव्याघ्रः सदा वैरमनुस्मरन् ।
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ॥
एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ ।
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥
एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव ।
योत्स्यमाना महावीर्या भीमार्जुनसमा युधि ॥
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः ।
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः ।
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः ॥
इति संवदतोरेव तयोः पुरुषसिंहयोः ।
ते सेने समसज्जेतां ङ्गायमुनवद्भृशम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

श्रीः