अध्यायः 041

सेनाद्वये व्यूहरचनावर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
ततः परानीकभिदं व्यूहमप्रतिमं महत् ।
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥
प्रययौ रथघोषेण सिंहनादरवेण च ।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥
वेपमान इव क्रोधाद्युद्वशौण्डः परन्तपः ।
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव ।
युधिष्ठिरं चाभ्यहनदपसव्यं चकारह ॥
कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
सुसङ्ग्राहेण रश्मीनां समकम्पन्त सृञ्जयाः ॥
तानि सर्वाणि सैन्यानि कर्ण दृष्ट्वा विशाम्पते ।
बभूवुः सम्प्रहृष्टानि तावकानि युयुत्सया ॥
अश्रूयन्त ततो वाचस्तावकानां विशाम्पते ।
कर्णार्जुनमहायुद्धमेतदद्य भविष्यति ॥
अद्य दुर्योधनो राजा हतामित्रो भविष्यति ।
अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति ॥
अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः ।
कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे ॥
चिरकालेप्सितमिदमद्येदानीं भविष्यति ।
अद्य द्रक्ष्याम सङ्ग्रामं घोरं देवासुरोपमम् ॥
अद्येदानीं महद्युद्धं भविष्यति भयानकम् ।
अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे ॥
अर्जुनं किल राधेयो वधिष्यति महारणे ।
अथवा कं नरं लोके न स्पृशन्ति मनोरथाः ॥
इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन ।
आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः ॥
भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान्् ।
मुरजानां महाशब्दानानकानां महारवान् ॥
नृत्यमानाश्च बहुशस्तर्जमानाश्च मारिष ।
अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः ॥
तेषां पदाता नागानां पादरक्षाः समन्ततः ।
पट्टसासिधराः शूराश्चापबाणमुसुण्ठिनः ॥
भिण्डिपालधराश्चैव शूरलहस्ताः सुचक्रिणः ।
तेषां समागमो घोरो देवासुररणोपमः ॥
धृतराष्ट्रं उवाच ।
कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् । धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान् ।
सर्वानेव महेष्वासानजय्यानमरैरपि ॥
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय ।
प्रविभज्य यथान्यायमवतस्थुः सुदंशिताः ॥
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् ।
कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम् ॥
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् ।
को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम् ॥
सर्वभूतानि यो ह्येकः खाण्डवे जितबान्पुरा ।
कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः ॥
सञ्जय उवाच ।
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः ।
परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा ॥
कृपः शारद्वतो राजन्मागधाश्च तरस्विनः ।
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः ।
सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम् ॥
गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः ।
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥
चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम् ।
संशप्तका युद्वशौण्डा वामपाश्वमपालयन् ॥
समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः ।
तेषां प्रपक्षाः काम्भोजाः शकाश्च यवनैः सह ॥
निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः ।
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥
ततः सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः ।
चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम् ॥
रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः ।
वाहिनीं प्रमुखे वीरः सम्प्रकर्षन्नशोभत ॥
अशोकस्तु महाबाहुः सूर्यवैश्वानरप्रभः । महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः ।
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥
तन्मध्ये स महाबाहुः स्वयं दुर्योधनो नृपः ।
चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः ॥
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः ।
अशोभत महाराज देवैरिव शतक्रतुः ॥
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः । नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः ।
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः ।
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥
तेषां पदातिनागानां पादरक्षाः सहस्रशः ।
पट्टसासिधराः शूरा बभूवुरनिवर्तिनः ॥
सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः ।
स व्यूहराजो विबभौ देवासुरचमूपमः ॥
बार्हस्पत्यः सुविहितो नायकेन विपश्चिता ।
नृत्यतीव महाव्यूहः परेषां भयमादधत् ॥
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।
हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः ।
धनञ्जयममित्रघ्नमेकवीरमुवाच ह ॥
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे ।
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते ॥
तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बूलम् ।
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥
सञ्जय उवाच ।
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् ॥
यथा यथा भवानाह तत्तथा न तदन्यथा । यत्तस्य विहितं कार्यं तत्करिष्यामि सुव्रत ।
प्रधानमथ चैवास्य विनाशं च करोम्यहम् ॥
तस्मात्त्वं जहि राधेयं भीमसेनः सुयोधनम् ।
वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥
दुःशानं शतानीको हार्दिक्यं शिनिपुङ्गवः ।
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम् ॥
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना ।
ते ते च तांस्तानहितानस्माकं घ्न्तु मामकाः ॥
सञ्जय उवाच ।
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः ।
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥
धनञ्जयो महाराज दक्षिणं पक्षमास्थितः ।
भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः ॥
सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः ।
व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः ॥
स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः ।
प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ ॥
तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥

श्रीः