अध्यायः 036

चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः ॥ 1 ॥ देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम् ॥ 2 ॥ बलभद्रेण तत्तीर्थे मज्जनादि ॥ 3 ॥

जनमेजय उवाच ।
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत ।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी ।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥
वैशम्पायन उवाच ।
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते ।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ ॥
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन् ।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन् ।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा ॥
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः ।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः ।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ॥
सोमो वसति नास्मासु रोहिणीं भजते सदा । ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर ।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत् ॥
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम् ।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः । तथाऽपि सोमो भगवान्पुनरेव महीपते ।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः ॥
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥
सोमो वसति नास्मासु नाकरोद्वचनं तव ।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके ॥
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन ॥
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी ।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः ॥
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा ।
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः ।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् ।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ॥
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् ।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी ॥
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः ।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति ।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः ।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः ॥
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे ।
ततो देवाः समागम्य सोममूचुर्महीपते ॥
किमिदं भवतो रूपमीदृशं सम्प्रकाशते ।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् ॥
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम् ।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः ॥
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः ।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन् ॥
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम् ।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम् । वीरुदोषधयश्चैव बीजानि विविधानि च ।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि ॥
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः ।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा ॥
हेतुना तु महाभागा निवर्तिष्यति केनचित् ।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः ।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम ॥
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति ।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम ॥
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम् ।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥
सरस्वतीं ततः सोमः स जगामर्षिशासनात् ।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः ।
लोकान्प्रभासयामास शीतांशुत्वमवाप च ॥
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम् ।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥
ततः प्रजापतिः सर्वा विससर्जाथ देवताः ।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् ॥
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन ।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम ॥
स विसृष्टो महाराज जगामाथ स्वमालयम् ।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा ॥
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः ।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥
अमावास्यां महाराज नित्यशः शशलक्षणः ।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे ॥
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप ।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः ॥
`लोकान्प्रभासयामास पुपोष च वपुस्तथा ।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः' ॥
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली ।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः ।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥
उदपानमथागच्छत्त्वरावान्केशवाग्रजः ।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः ॥
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय ।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे षट््त्रिंशोऽध्यायः ॥ 36 ॥

9-36-9 त्वा त्वां अधर्मः मा स्मृशेत् ॥ 9-36-14 विरोचन हे विशेषेण रोचमान । त्वां माशप्स्ये । तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः ॥ 9-36-38 गच्छयतः इति क.पाठः ॥ 9-36-36 षटत्रिंशोऽध्यायः ॥

श्रीः