अध्यायः 037

एकतद्वितत्रितनामकानां विप्राणां कथा ॥ 1 ॥

वैशम्पायन उवाच ।
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः ।
त्रितस्य च महाराज जगामाथ हलायुधः ॥
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान् ।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः ॥
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।
कूपे च वसता तेन सोमः पीतो महात्मना ॥
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥
जनमेजय उवाच ।
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम ॥
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् । कथं च याजयामास पपौ सोमं च वै कथम् ।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे ॥
वैशम्पायन उवाच ।
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः ॥
तेषां तु तपसा प्रीतो नियमेन दमेन च ।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च ।
जगाम भगवान्स्थानमनुरूपमिवात्मनः ॥
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः ।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् ॥
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च ।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ॥
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः ।
अपूजयन्महाभागं यथास्य पितरं तथा ॥
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च ॥
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप । याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः ।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् ॥
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च । यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति ।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून् ॥
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः ।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः ॥
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् ।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् ॥
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च ।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम् ॥
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह ।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर ॥
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः ।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते ॥
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे ।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः ॥
वैशम्पायन उवाच ।
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत् ।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान् ॥
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः । तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह ।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे ॥
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः ।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ॥
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ॥
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः ।
उदपाने तदा राजन्निर्जले पांसुपंवृते ॥
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते ।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा ॥
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः ।
सोमः कथं तु पातव्य इहस्थेन मया भवेत् ॥
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः ।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया ॥
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः ।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च ॥
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः ।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः ॥
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ॥
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः ।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै ॥
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः ॥
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः ।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते ॥
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः ।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः ॥
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते ॥
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् ।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम् ॥
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥
ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन् ॥
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः ।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ॥
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः ।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः ।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा ॥
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा ।
उवाच परुषं वाक्यं शशाप च महातपाः ॥
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ ॥
भवितारौ मया शप्तौ पापेनानेन कर्मणा ।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते ।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान् ॥
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः ।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान् ॥ 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः ॥ 9-37-16 पशून्प्रतिपश्वर्थम् । दक्षिणार्था गाः प्राप्तुमित्यर्थः ॥ 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः ॥ 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः ॥ 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः ॥ 9-37-37 सप्तत्रिंशोऽध्यायः ॥

श्रीः