अध्यायः 042

बलदेवस्यावाकीर्णतीर्थगमनम् ॥ 1 ॥ बकमुनिचरित्रकथनम् ॥ 2 ॥ बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम् ॥ 3 ॥

वैशम्पायन उवाच ।
ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः । यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः ॥
तपसा घोररूपेण कर्शयन्देहमात्मनः ।
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान् ॥
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके ।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः । `तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः ।'
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम् ॥
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति ।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥
एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान् ।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् ।
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः ।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित् ।
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः ।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।
xxxx दाल्भ्यो महाराज नियमं परमं स्थितः ॥
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः ॥
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे ।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥
छिxxxमानं xxxxxx परशुना विभो xxxxxxxxxxxx व्यवकीर्थमचेतनम् ॥
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः ।
बभूव दुर्मना राजा चिन्तयामास च प्रभुः ॥
xxxxxxxxxरद्यत्रं ब्राह्मणैः सहितः पुरा ।
xxxxxगच्छत्तु क्षीयते राष्ट्रमेव च ॥
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ ॥
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः ।
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय ॥
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया ।
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः ॥
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान् ॥
`यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप ।' अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥
वैशम्पायन उवाच ।
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् ।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे । मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥
तं तथा विलपन्तं तु शोकोपहतचेतसम् ।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत् ॥
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम् ॥
मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून् ।
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः ॥
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः ।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत् ॥
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।
असुराणामभावाय भवाय च दिवौकसाम् ॥
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः ।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे ॥
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान् ॥
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥
तत्र यज्ञे ययातेश्च महाराज सरस्वती ।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान् ॥
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः । औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् ।
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति ॥
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे । तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम् ।
षड्रसं भोजनं चैव दानं नानाविधं तथा ॥
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम् ।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः ॥
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा ।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ॥
ततस्तालकेतुर्महाधर्मकेतु-- र्महात्मा कृतात्मा महादाननित्यः ।
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

9-42-1 ब्रह्मयोनेरवाकीर्णमिति झ.पाठः । तत्र ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम द्वाल्भ्यसेवितं तीर्थं जगामेत्यर्थः ॥ 9-42-3 पाञ्चलान्विश्वजितो महत्मान्ते अगमन् ॥ 9-42-4 ईश्वरं पाश्चालसजम् ॥ 9-42-5 xxxxxxxxxxx खयं तत्र भागं न गृहीतवानित्यर्थः ॥ 9-42-19 अथ वै प्राश्निकांस्तत्रेति झ पाठः ॥ 9-42-42 द्विचत्वारिंशोऽध्यायः ॥

श्रीः