अध्यायः 043

वसिष्ठापवाहतीर्थस्य तन्नामप्राप्तिप्रकारकथनम् ॥ 1 ॥

जनमेजय उवाच ।
वसिष्ठापवाहो ब्रह्मन्वै भीमवेगः कथं नु सः ।
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥
कथमस्याभवद्वैरं कारणं किं च तत्प्रभो ।
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यति ॥
वैशम्पायन उवाच ।
विश्वामित्रस्य विप्रर्षेर्वसिष्ठस्य च भारत ।
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् ।
पूर्वतः पार्श्वतश्चासीद्विश्वामित्रस्य धीमतः ॥
यत्र स्थाणुर्महाराज तप्तवान्परमं तपः ।
तत्रास्य कर्म तद्धोरं प्रवदन्ति मनीषिणः ॥
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् ।
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥
तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप ।
सैनापत्येन महता सुरारिविनिबर्हणम् ॥
तस्मिन्सारस्वते तीर्थे विश्वामित्रो महामुनिः ।
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत ।
स्पर्धां तपः कृतां तीव्रां चक्रतुस्तौ वतपोधनौ ॥
तत्राप्यधिकसन्तप्तो विश्वामित्रो महामुनिः ।
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ॥
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ।
इदं सरस्वती तूर्णं मत्समीपं तपोधनम् ॥
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ।
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः ।
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह ।
गत्वा चैनं महावीर्यं महाकोपं च भामिनी ॥
तदा तं वेपमानाङ्गी विवर्णा प्राञ्जलिर्भृशम् ।
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥
हतवीरा यथा नारी साऽभवद्दुःखिता भृशम् ।
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय ।
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा ।
प्राकम्पत भृशं भीता वायुनेवाहता लता ॥
तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् ।
अविचारं वसिष्ठं त्वमानयस्त्वान्तिकं मम ॥
सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् ।
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि ॥
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत् ।
यदुक्ता सरितांश्रेष्ठा विश्वामित्रेण धीमता ॥
उभयोः शापयोर्भीता वेपमाना पुनःपुनः ।
चिन्तयित्वा महाशापमृषिविप्रासिता भृशम् ॥
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् ।
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥
पाह्यात्मानं सरिच्छेष्ठे वह मां शीघ्रगामिनी ।
विश्वामित्रः शपेद्वि त्वां मा कृथास्त्वं विचारणाम् ॥
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत् ॥
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि ।
कृतवान्हि दयां नित्यं तस्या कार्यं हितं मया ॥
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् ।
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥
इदमन्तरमित्येवं ततः सा सरितां वरा ।
कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥
तेन कूलापहारेण मैत्रावरुणिरौह्यत ।
उह्यमानः स तुष्टाव तदा राजन्सरस्वतीम् ॥
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति ।
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥
त्वमेवाकाशगा देवि मेघेषु सृजसे पयः ।
सर्वाश्चापस्त्वमेवेति यथा वयमधीमहि ॥
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्बुद्धिरमा तथा । त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत् ।
त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥
वैशम्पायन उवाच ।
एवं सरस्वती राजन्स्तूयमाना महर्षिणा ।
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ॥
न्यवेदयत चाक्षीक्ष्णं विश्वामित्राय तं मुनिम् ॥
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयान्नदी । अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ।
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् ॥
ततोपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।
अब्रवीत्त्वथ सङ्क्रुद्धो विश्वामित्रः सरस्वतीम् ॥
यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता ।
शोणितं वह कल्याणि राक्षसानां च सम्मतम् ॥
ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा ।
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप ।
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

श्रीः