अध्यायः 044

विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम् ॥ 1 ॥ इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम् ॥ 2 ॥ बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम् ॥ 3 ॥

वैशम्पायन उवाच ।
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता ।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत् ॥
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत ।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः ।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः ।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः ॥
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम् ।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ॥
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः ।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥
ते तु सर्वे महाभागाः समागम्य महाव्रताः ।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम् ।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम् ॥
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती ।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः ॥
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे ।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् ।
विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा ।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा ॥
आराध्य पशुभर्तारं महादेवं जगत्पतिम् ।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् ॥
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती । प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् ।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा ॥
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः ।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः ॥
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् ।
न च नः कामकारोऽयं यद्वयं पापकारिणा ॥
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा । पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ।
योषितां चैव पापेन योनिदोषकृतेन च ॥
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च ।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥
`शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम् ।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः' ॥
आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा ।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ॥
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः ।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम् ।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥
ऋषय ऊचुः ।
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत् ।
सकेशमवधूतं च रुदितोपहतं च यत् ॥
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह । तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत् ।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः ।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा ।
अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः ।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा ॥
एतमर्थमभिज्ञाय देवराजः शतक्रतुः ।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल ॥
जनमेजय उवाच ।
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान् ।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥
वैशम्पायन उवाच ।
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर ।
यथा बिभेद समयं नमुचेर्वासवः पुरा ॥
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् ।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि ।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥
एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः ।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात् ।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात् ॥
एवं स शिरसा तेन चोद्यमानः पुनः पुनः ।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत् ॥
तमब्रवील्लोकगुरुररुणायां यथाविधि ।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे ॥
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु ।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु ॥
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा ।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान् ॥
इह त्वं यज देवेन्द्र दद दानान्यनेकशः । अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे ॥]
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय ।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च ।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत ।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम ॥
वैशपायन उवाच ।
तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि ।
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्सुतीर्थम् ॥
यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र ।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा ॥
यस्यान्तेऽभूत्सुमहद्दानवानां दैतेयानां राक्षसानां च देवैः ।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान ॥
सैनापत्यं लब्धवान्दैवतानां महासेनो यत्र दैत्यान्तकर्ता ।
साक्षाच्चैवं न्यवसत्कार्तिकेयः सदा कुमारो यत्र स प्लुक्षराजः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

9-44-10 अध्यास्यामहे अध्यवसायं करिष्यामहे ॥ 9-44-49 सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः । यत्र नक्षत्रकामः इति ङ.पाठः ॥ 9-44-44 चतुश्चत्वारिंशोऽध्यायः ॥

श्रीः