अध्यायः 048

देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम् ॥ 1 ॥ बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च ॥ 2 ॥

जनमेजय उवाच ।
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥
अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥
अपाम्पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः ।
तन्मे ब्रूहि महाप्रज्ञ कुशलो ह्यसि सत्तम ॥
वैशम्पायन उवाच ।
शृणु राजन्निदं चित्रं पूर्वकाले यथाऽभवत् ॥
आदौ कृतयुगे राजन्वर्तमाने यथाविधि ।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥
यथाऽस्मान्सुरराट् शक्रो भयेभ्यः पाति सर्वदा ।
तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥
वासश्च ते सदा देव सागरे मकरालये ।
समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥
सोमेन सार्धं च तव हानिवृद्वी भविष्यतः ।
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥
समागम्य ततः सर्वे वरुणं सागरालयम् ।
अपाम्पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥
अभिषिच्य ततो देवा वरुणं यादसाम्पतिम् ।
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः । सरितः सागरांश्चैव नदांश्चापि सरांसि च ।
पालयामास विधिना यथा देवाञ्शतक्रतुः ॥
ततस्त्रत्राप्युपस्पृश्य दत्त्वा च विविधं वसु । अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा ।
नष्टो न दृश्यते यत्र शमीगर्भे दुताशनः ॥
लोकालोकविनाशे च प्रादुर्भूते तदाऽनघ ।
उपतस्थुः सुरा यत्र सर्वलोकपितामहम् ॥
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।
सर्वभूतक्षयो राजन्सम्पादय विभोऽनलम् ॥
जनमेजय उवाच ।
किमर्थं भगवानग्निः प्रनष्टो लोकभावनाः ।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥
वैशम्पायन उवाच ।
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि ।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।
ज्वलनं तं समासाद्य प्रीताऽभूवन्सवासवाः ॥
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ।
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना ॥
तत्राप्याप्लुत्य मतिमान्ब्रह्मशापान्मुमोच ह ॥
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।
कौबेरं प्रययौ तीर्थं यत्र तप्त्वा महत्तपः ॥
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ॥
तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।
उपतद्धतुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली बलः ॥
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ।
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ॥
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ।
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ॥
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ।
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ॥
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ।
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ॥
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोजवम् ।
विमानं पुष्पकं दिव्यं नैर्ऋतैश्वर्यमेव च ॥
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् ।
जगाम त्वरितो रामस्तीर्थं स्वेतानुलेपनः ॥
निषेवितं सर्वसत्वैर्नाम्ना बदरपाचनम् ।
नानर्तुकवनोपेतं सदा पुष्पफलं शुभम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

9-16-25 ऐलबिलः कुबेरः ॥ 9-16-48 अष्टचत्वारिंशोऽध्यायः ॥

श्रीः