अध्यायः 050

बलभद्रस्येरद्रतीर्थादिगमनम् ॥ 1 ॥ तत्तत्तीर्थमाहात्म्यकथनम् ॥ 2 ॥

वैशम्पायन उवाच ।
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली ।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह ।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् ।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः ॥
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः ।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् ।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः ।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः ॥
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ।
यत्र रामो महाभागो भार्गवः सुमहातपाः ॥
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् ।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम् ॥
अयजद्वाजपेयेन सोऽश्वमेधशतेन च ।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम् ॥
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय ।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः । मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ।
यत्रानयामास तदा राजसूयमपाम्पतिः ॥
दितेः सुतान्महाभागो वरुणो वै सितप्रभः । यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा ।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा ॥
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत ।
देवानां दानवानां च त्रैलोक्यस्य भयावहः ॥
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय ।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति ॥
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे ।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः ।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम ।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः ।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः ।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते ॥
एते चान्ये च बहवो योगसिद्धाः सहस्रशः ।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ॥
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत ।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ॥
असितो देवलश्चैव तस्मिन्नेव महातपाः ।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

9-50-1 आनयामास मुनीनित्यनुषज्ज्यते । राजसूयं कर्तुमिति शेषः ॥ 9-50-50 पञ्चाशत्तमोऽध्यायः ॥

श्रीः