अध्यायः 051

देवलजैगीषव्ययोश्चरित्रकीर्तनम् ॥ 1 ॥ बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम् ॥ 2 ॥

वैशम्पायन उवाच ।
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः ।
गार्हिस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा ॥
धर्मनित्यः शुचिर्दान्तो यज्ञशीलो महातपाः ।
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥
अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः ।
प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः ॥
काञ्चने लोष्ठके चैव समदर्शी महातपाः । देवानपूजयन्नित्यमतिथींश्च द्विजैः सह ।
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥
ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः ।
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः ।
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् ।
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ॥
जैगीषव्यो मुनिस्तं तु ददर्शाथ स केवलम् ।
आहारकाले मतिमान्परिव्राड् जमेजय ॥
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ।
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥
देवलस्तु यथाशक्ति पूजयामास भारत ।
ऋषिदृष्टेन विधिना समा बहीः समाहितः ॥
कदाचित्तस्य नृयते देवलस्य महात्मनः ।
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम ।
न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥
एवं विगणयन्नेव स जगाम महोदधिम् ।
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलं ॥
गच्छन्नेव स धर्मात्मा समुद्रं सरितां परिम् ।
जैगीषव्यं ततोऽपश्यद्रतं प्रागेव भारत ॥
ततः सविस्मयश्चिन्तां जगामाथामितप्रभः ।
कथं सिक्षुरचं प्राप्तः समुद्रे स्नात एव च ॥
इत्येवं चिन्तयामास महर्षिरसितस्तदा ।
स्नात्वा सखुद्रे विधिवच्छुचिर्जप्यं जजाप सः ॥
कृतजxxxxx श्रीमानाश्रयं च जगाम ह ।
xxxxxxxxxx गृहीत्वा जनमेजय ॥
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः ।
xxxxxxxxx तत्र जैगीषव्यमपश्यत ॥
न व्याहरति चैवेनं जैगीषव्यः कथञ्चन ।
xxxxxxxx वसति स्म महातपाः ॥
तं दृष्ट्वा चाप्लुतं तोये सामरे सागरोपमम् ।
प्रविष्टxxxxx चापि पूर्वमेव ददर्श सः ॥
xxxxx देवलो राजंश्चिन्तयामास बुद्धिमान् ।
xxxxxxx तपसो जैगीषव्यास्व योगजम् ॥
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः ।
मया दृष्टः समुद्रे च आश्रमे च कथंन्वयम् ॥
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः । उत्पपाताश्रमात्तस्मादन्तरिक्षं विशाम्पते ।
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् ।
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः ।
अपश्यद्वै दिवं यातं जैगीषव्यं स देवलः ॥
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत ।
पितृलोकाच्च तं यातं याम्यं लोकमपश्यत ॥
`तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत ।' तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् ।
व्रजन्तमन्वपश्यत्स जैगीषव्यं स देवलः ॥
लोकान्समुत्पतन्तं तु शुभानेकान्तयाजिनाम् ।
ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह ॥
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः । तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ।
व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः ।
तेषां स्थानं ततो यतां तथाऽग्निष्टोमयाजिनाम् ॥
अग्निष्टुतेन च तथा ये यजन्ति तपोधनः ।
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् ।
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥
यजन्ते राजसूयेन पुण्डरीकेण चैव ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥
अश्वमेधं क्रतुवरं नरमेधं तथैव च ।
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप ।
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥
मैत्रावरुणयोर्लोकानादित्यानां तथैव च ।
सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः ।
तानिं सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् ।
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥
त्रील्लोँकान्प्रवरान्विप्रमुत्पतन्तं स्वतेजसा ।
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥
ततो मुनिवरं भूयो जैगीषव्यमथासितः ।
नान्वपश्यत लोकस्थमन्तर्हितमरिन्दम ॥
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः ।
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् ।
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मचारिणः ॥
जैगीषव्यं न पश्यामि तं शंसन्तु तपोधनाः ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
सिद्धा ऊचुः ।
शृणु देवल भूतार्थं शंसतां नो दृढव्रत ।
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोक्षयम् ॥
वैशम्पायन उवाच ।
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मचारिणाम् ।
असिता देवलस्तूर्णमुत्पपात पपात च ॥
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह । न देवलगतिस्तत्र तव गन्तुं तपोधन ।
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान् ॥
वैशम्पायन उवाच ।
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः ।
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् ।
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया ।
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥
ततोऽब्रविन्महात्मानं जैगीषव्यं स देवलः । विनयावनतो राजन्नुपसर्प्य महामुनिम् ।
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः ।
विधिं योगस्य परमं कार्याकार्यस्य शास्त्रतः ॥
सन्नाये कृतबुद्धिं तं ततो दृष्ट्वा महातपाः ।
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥
सन्न्यासे कृतबुद्धिं तं भूतानि पितृभिः सह ।
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा ।
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥
ततस्तु फलमूलानि पवित्राणि च भारत ।
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः ।
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः ।
मोक्षे गार्हस्थ्यधर्मे वा किन्नु श्रेयस्करं भवेत् ॥
इति निश्चित्य मनसा देवलो राजसत्तम ।
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥
एवमादीनि सञ्चिन्त्य देवलो निश्चयान्वितः ।
प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥
ततो देवाः समागम्य बृहस्पतिपुरोगमाः ।
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥
अथाब्रवीदृषिवरो देवान्वै नारदस्तथा ।
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः ।
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥
नातः परतरं किञ्चित्तुल्यमस्ति प्रभावतः ।
तेजसस्तपसश्चास्य योगस्य च महात्मनः ॥
एवं प्रभावो धर्मात्मा जैगीषव्यस्तथाऽसितः ।
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः ॥
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः ।
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महाxxxxxxर्थम् ॥ ।

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकपञ्चाशत्तमोऽध्यायः ॥ 51 ॥

9-51-7 नैवापुञ्चत धर्मतः इति छ.पाठः ॥ 9-51-8 न्यतिक्रमत् व्यत्यक्रामत् ॥ 9-51-16 असितप्रभ इति छ.पाठः ॥ 9-51-46 भूतार्थं यथाभूतार्थम् ॥ 9-51-47 उत्पपात ब्रह्मलोकं गन्तुमिति शेषः । पपात च गगनात् ॥ 9-51-54 सर्वाः क्रिया उत्सर्गेष्ठ्यादयः ॥ 9-51-56 मोक्षं सन्न्यासं त्यक्तुं मनो दधे । उत्सृष्टा नामग्नीनां पुनराधानं कर्तुमैच्छत् ॥ 9-51-66 असितो देवल ॥ 9-51-51 एकपञ्चाशत्ततोऽध्यायः ॥

श्रीः