अध्यायः 052

दधीचिसारस्वतयोश्चरितवर्णनम् ॥ 1 ॥

वैशम्पायन उवाच ।
यत्रेजिवानुडुपती राजसूयेन भारत ।
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ॥
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् ।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥
जनमेजय उवाच ।
कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।
वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥
वैशम्पायन उवाच ।
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः ।
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥
तस्यातितपसः शक्रो बिभेति सततं विभो ।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः ।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः ।
समीपतो महाराज सोपातिष्ठत भामिनी ॥
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः ।
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा ॥
कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ । सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः ॥थ
सुषुवे चापि समये पुत्रं सारस्वतं वरम् ।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् । ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् ।
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् ।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम् ।
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥
परिष्वज्य चिरं कालं तदा भरतसत्तम ।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥
विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः ।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् ।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥
दधीचिरुवाच ।
प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा ।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥
मम प्रियकरी चापि सततं प्रियदर्शने ।
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि ॥
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः ।
सारस्वत इति ख्यातो भविष्यति महातपाः ॥
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् ।
सारस्वतो महाभागे वेदानध्यापयिष्यति ॥
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे ।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥
एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी ।
पुत्रमादाय मुदिता जगाम भरतर्षभ ॥
एतस्मिन्नेव काले तु विरोधे देवदानवैः ।
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह ॥
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा ।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः ।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥
तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये ।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥
स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा ।
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन् ॥
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ।
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा ॥
कारयामास दिव्यानि नानाप्रहरणान्युत ।
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान् ॥
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा ।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥
अतिकायः स तेजस्वी लोकसारो विनिर्मितः ।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ॥
नित्यमुद्विजते चास्य तेजसः पाकशासनः ॥
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत । भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च ।
दैत्यदानववीराणां जघान नवतीर्नव ॥
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी ।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः ।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा ।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥
न गन्तव्यमितः पुत्र तवाहारमहं सदा ।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा ।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥
अथ तस्यामनावृष्ट्यामतीतायां महर्षयः ।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥
तेषां क्षुधापरीतानां नष्टा देवा विधावताम् ।
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह ॥
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् ।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥
स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम् ।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने ॥
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः ।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः ।
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत ॥
तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक ।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥
यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः ।
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः ।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे ।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन् ।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण तं वृद्धकन्याश्रममे व वीरः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥

9-52-5 दधीच इति इति छ.झ.पाठः ॥ 9-52-12 ऋषिसंसादितं दृष्ट्वेति क.छ.पाठः । तत्र संसादितं परिवारितमित्यर्थः ॥ 9-52-28 दधीचोऽस्थीनीति छ.पाठः ॥ 9-52-29 प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयषिति झ.पाठः ॥ 9-52-34 अस्य मुनेः ॥ 9-52-35 तेन तदस्थिजेन वज्रेण नवतीर्नव दशाधिकां अष्टशतीम ॥ 9-52-52 द्विपञ्चाशत्तमोऽध्यायः ॥

श्रीः