अध्यायः 055

मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम् ॥ 1 ॥

वैशम्पायन उवाच ।
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः ।
आश्रमं सुमहत्पुण्यमगमज्जनमेजय ॥
मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् ।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् ।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ॥
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥
अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी ।
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ॥
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः ।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥
साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ॥
गता स्वर्गं महाराज पूजिता च महात्मभिः ।
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ॥
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ॥
नातिदूरं ततो गत्वा नगं तालध्वजो बली ।
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ॥
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥
हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः । आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ ।
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ॥
तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह ।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ॥
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् ।
तं देशं कारपचनात्स तस्मादाजगामह ॥
स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च । ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ।
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥
जटामण्डलसंवीतः कुशचीरी महातपाः ।
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥
महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥
प्रभवः कलहानं च नित्यं च कलहप्रियः ।
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥
प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् ।
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ॥
तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् ।
सर्वमेतद्यथावृत्तमतीतं कुरुसंक्षयम् ॥
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ॥
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
नारद उवाच ।
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।
एते चान्ये च बहवो हतास्तत्र महाबलाः ॥
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥
अहतांस्तु महाबाहो शृणु मे तत्र माधव ॥
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः । कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् ।
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ॥
दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु ।
हदं द्वैपायनं नाम विवेश भृशदुःखितः ॥
शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा ।
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥
स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् ॥
स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् ।
भविष्यति तयोरद्य युद्धं राम सुदारुणम् ॥
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥
वैशम्पायन उवाच ।
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् । सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ।
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् । ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् ।
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ॥
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ।
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा ।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च ॥
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ॥
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः ।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् ॥
एवं तदभवद्युद्वं तुमुलं जनमेजयं ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥
धृतराष्ट्र उवाच ।
राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते ।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥ समाप्तं हदप्रवेशपर्व ॥ 2 ॥

9-55-10 स्कन्धावाराणि सर्वाणीति क.ङ.छ.पाठः ॥ 9-55-12 प्लक्षप्रस्रवणं विलमिति क.पाठः ॥ 9-55-19 कच्छपीं सुखशब्दां तामिति क.छ.झ.पाठः ॥ 9-55-30 दुर्योधनो हते शल्ये विद्रुतेषु कृपादिषु इति झ.पाठः ॥ 9-55-38 सरस्वतीं हीनविदेशवासिनः सदा रमरिष्यन्ति इति ङ.पाठः । सरस्वतीहीनविदेशवासिनः इति क.पाठः ॥ 9-55-55 पञ्चपञ्चाशत्तमोऽध्यायः ॥

श्रीः