अध्यायः 059

भीमसेनेन दुर्योधनस्योरुभेदनम् ॥ 1 ॥

सञ्चय उवाच ।
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः ।
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम् ॥
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः ।
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन ॥
वासुदेव उवाच ।
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः ।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् ॥
मायया निर्जिता देवैरसुरा इति नः श्रुतम् ।
विरोचनस्तु शक्रेण मायया निर्जितः स वै ॥
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ।
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः ॥
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय ।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् ॥
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः ।
मायाविनं तु राजानं माययैव निकृन्ततु ॥
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति ।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे ।
धर्मराजापराधेन भयं नः पुनरागतम् ॥
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् । जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम् ।
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥
अबुद्धिरेषां महती धर्मराजस्य पाण्डव ।
यदेकविजये वीर पणितं कृतमीदृशम् ॥
सुयोधनः कृती वीर एकायनगतस्तथा ॥
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः ।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् ।
भेतव्यमरिशेषाणामेकायनगता हि ते ॥
[साहसोत्पतितानां च निराशानां च जीविते ।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय] ॥
सुयोधनमिमं भग्नं हतसैन्यं हदं गतम् । पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ।
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् ॥
अपि नो निर्जितं राज्यं न हरेत सुयोधनः । यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः ।
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया ॥
एनं चेन्न महाबाहुरन्यायेन हनिष्यति ।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥
सञ्जय उवाच ।
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः ।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत् ॥
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे ।
मण्डलानि विचित्राणि यमकानीतराणि च ॥
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च ।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव ॥
तथैव तव पुत्रोऽपि गदामार्गविशारदः ।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते ।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ ।
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥
मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः ।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे ।
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव ।
गदानिर्घातसं हादः प्रहाराणामजायत ॥
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥
तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप ।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥
तयोः समभवद्युद्धं घोररूपमसंवृतम् ।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ ।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ।
ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते ।
ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः ।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती ॥
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते ।
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात् ।
भीमसेनं च गदया प्राहरत्कुरुसत्तम ॥
तस्य विस्यन्दमानेन रुधिरेणामितौजसः ।
प्रहारगुरुपाताच मूर्छेव समजायत ॥
तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे ।
धारयामास भीमोऽपि शरीरमतिपीडितम् ॥
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे ।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥
ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम् ।
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः ॥
तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम् ।
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥
अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः ।
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम् ॥
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम् ।
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत् ॥
सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः ।
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा ।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥
स पपात नरव्याघ्रो वसुधामनुनादयन् ।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् । महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी ।
पपात चोल्का महती पतिते पृथिवीपतौ ॥
तथा शोणितवर्षं च पांसुवर्षं च भारत ।
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥
यक्षाणां राक्षसानां च पिशाचानां तथैव च ।
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे ॥
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् ।
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम् ॥
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह ।
मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥
बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् ।
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥
[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः ।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च ।
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते] ॥
हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम ।
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन् ॥
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन् ।
दुर्योधने तदा राजन्पतिते तनये तव ॥
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह ।
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा ।
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः ।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

9-59-15 अरिशेषाणो पञ्चम्यर्थे षष्ठी ॥ 9-59-34 सहसैवाभिसारित इति क.छ.पाठः ॥ 9-59-45 धृत्या वञ्चयत इति क.छ.पाठः ॥ 9-59-48 क्षुपः क्षुद्रवृक्षः ॥ 9-59-59 एकोनषष्टितमोऽध्यायः ॥

श्रीः