अध्यायः 063

पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम् ॥ 1 ॥ कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे अग्निना तद्ग्रथस्य भस्मीकरणम् ॥ 2 ॥ कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम् ॥ 3 ॥ कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम् ॥ 4 ॥ कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम् ॥ 5 ॥

सञ्जय उवाच ।
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः ।
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥
पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते ।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः ।
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् ।
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने ॥
गतोत्सवं पुरमिव हृतनागमिव हदम् ।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥
तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः ।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः ।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥
ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥
अवरोपय गाण्डीवमक्षयौ च महेषुधी । अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ।
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ॥
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् ।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि ।
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः ॥
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः ।
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः ।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो ।
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह ।
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥
किमेतन्महदाश्चर्यमभवद्यदुनन्दन ।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥
वासुदेव उवाच ।
द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन ।
मदास्थितत्वात्समरे न विशीर्णः परन्तप ॥
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा ।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥
सञ्जय उवाच ।
ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा ।
परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः ।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ । मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः ।
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥
उपयातमुपप्लाव्यं सह गाण्डीवधन्वना ।
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः ।
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर ।
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ।
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः ।
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥
युधिष्ठिर उवाच ।
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन ।
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ॥
भवतस्तु प्रसादेन संग्रामे बहवो हताः ।
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥
तथा तव महाबाहो पर्यायैर्बहुभिर्मया ।
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता ॥
उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥
`एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् ।
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन ॥
स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् । सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः ।
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् ॥
भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो ।
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम ॥
द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् ।
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः ॥
सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् ।
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् ॥
विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् ।
न चकार मतिं हन्तुं ततस्ते बलवत्तराः ॥
अत्र गीता मया सुष्ठु गिरः सत्या महीपते ।
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून् ॥
अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते । स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ॥'
इत्येवमुक्ते ते वीराः शिबिरं तव भारत ।
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् ॥
रजतं जातरूपं च मणीनथ च मौक्तिकान् ।
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥
`गजानश्वान्रथांश्चैव महान्ति शयनानि च' ।
दासीदासमसंख्येयं राज्योपकरणानि च ॥
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ ।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः ॥
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च ।
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः ॥
अथाब्रवीन्महाराज वासुदेवो महायशाः ।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा ।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः ॥
ते समासाद्य सरितं पुण्यामोघवतीं नृप ।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥
युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन् ॥
तत्र ते गमनं माप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः । क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि ।
पितामहश्च भगवान्व्यासस्तत्र भविष्यति ॥
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् ॥
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ।
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः ॥
तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् ।
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः ।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

9-63-5 वर्षवरः षण्ढः ॥ 9-63-6 दुर्योधनस्य पुरसराः दुर्योधनपुरः सराः ॥ 9-63-30 तेजस्वीति गतिः श्रुता इति छ.पाठः । तथैव च महाबाहो मनुसन्तानं तेजसश्च गतीः शुभाः इति झ.पाठः ॥ 9-63-63 त्रिषष्टितमोऽध्यायः ॥

श्रीः