अध्यायः 064

जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम् ॥ 1 ॥ कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम् ॥ 2 ॥

जनमेजय उवाच ।
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः ।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति ।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥
निहतेषु तु योधेषु हते दुर्योधने तदा ।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे ।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे ।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम ।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥
वैशम्पायन उवाच ।
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव ।
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत ।
युधिष्ठिरं महाराज महद्भयमथाविशत् ॥
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् ।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा ।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् ।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति ।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥
एवं विचिन्त्य बहुधा भयशोकसमन्वितः ।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् ।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत ॥
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे ।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् ।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥
साह्यं तथा महाबाहो दत्तमस्माकमच्युत ।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम् ॥
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे ।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् ।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः ॥
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः ।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे ॥
ते च ते सफला जाता हते दुर्योधनेऽच्युत ।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु ॥
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति ।
गान्धार्या हि महाबाहो क्रोधं शमय माधव ॥
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता । पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति ।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम ॥
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् ।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥
तत्र मे गमनं प्राप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः ।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि ।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् ।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना ॥
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः ।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् ॥
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः ।
न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः ।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥
ततः प्रायान्महाराज माधवो भगवान्रथी ।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥
प्रविश्य नगरं वीरो रथघोषेण नादयन् । विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ॥
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः ।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः ।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह ॥
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् । प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि ।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ॥
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत ।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो ॥
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः ।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः ।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः ॥
अज्ञातवासचर्या च नानावेषसमावृतैः ।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा ॥
मया च स्वयमागम्य युद्धकाल उपस्थिते ।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः ॥
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः ।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च । द्रोणेन च सपुत्रेण विदुरेण च धीमता ।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत ।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् ।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय ॥
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् ।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् ।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् ।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् ॥
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी ।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् ॥
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् ।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥
जानासि च महाबाहो धर्मराजस्य या त्वयि ।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् ।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति ॥
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् ।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति ॥
हिया च परयाऽविष्टो भवन्तं नाधिगच्छति ।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः ।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते ।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥
जानासि च यथा राज्ञि सभायां मम सन्निधौ ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् ।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ॥
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ॥
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥
शक्ता चासि महाभागे पृथिवीं सचराचराम् ।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् ।
एवमेतन्महाबाहो यथा वदसि केशव ॥
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम ।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव ।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर ॥
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा ।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥
तत एनां महाबाहुः केश्वः शोककर्शिताम् ।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः ।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः ॥
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च ।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः ।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् ।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय ।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् ।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह ।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् ।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

9-64-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः । कारणानि अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः ॥ 9-64-33 प्रायादगच्छत् ॥ 9-64-34 विदितं धृताराष्ट्रस्येति झ.पाठः ॥ 9-64-36 कृष्णस्य व्यासस्य ॥ 9-64-49 असूयां पाण्डुपुत्रोष्विति झ.पाठः ॥ 9-64-64 चतुःषष्टितमोऽध्यायः ॥

श्रीः