अध्यायः 066
द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम् ॥ 1 ॥
द्रौणिदुर्योधनयोः संलापः ॥ 2 ॥ द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम् ॥ 3 ॥
दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽफिषेचनम् ॥ 4 ॥
वादिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् ।
हतशिष्टास्तदा राजन्कौरवाणां महारथाः ॥
विनिर्भिन्नाः शितैर्बाणैर्णदातोमरशक्तिभिः ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् ।
प्रभग्नं वायुवेगेन महासालं यथा वने ॥
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् ।
महागर्जामेवारण्ये व्याधेन विनिपातितम् ॥
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् ।
यदृच्छया निपतितं चन्द्रमादित्यगोचरात् ॥
युगान्तमारुतेनेव शोषितं मकरालयम् ।
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥
रेणुध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे ।
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ॥
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ।
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् ।
सामर्षं तं नरव्याघ्रं भौमं निपतितं तथा ॥
ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम् ।
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥
अवतीर्य रथेभ्यश्च प्राद्रवन्राजसन्निधौ ।
दुर्योधनं च सम्प्राप्य सर्वे भूमावुपाविशन् ॥
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् ।
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥
न नूनं विद्यते पुण्यं मानुषे किञ्चिदेव हि ।
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् ।
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥
दुःशासनं न पश्यामि नापि कर्णं महारथम् ।
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन ।
लोकनाथो भवान्यत्र शेषे पांसुषु रूषितः ॥
एष मूर्धाभिषिक्तानामग्रे गत्वा परन्तपः ।
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव ।
सा च ते महती सेना क्व गता पार्थिवोत्तम ॥
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे ।
यो वै लोकगुरुर्नाथो भवानेतां दशां गताः ॥
अध्रुवा सर्वमर्त्येषु ध्रुवैव श्रीर्विचिन्त्यते ।
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः ।
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् ।
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥
ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते ।
विनाशः सर्वभूतानां कालपर्यायकारितः ॥
सोऽयं मां समनुप्राप्तः प्रत्यक्षो भवतां हि यः ।
पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः ॥
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि ।
दिष्ट्याऽहं निहतः पापैश्चलेनैव विशेषतः ॥
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता ।
दिष्ट्या चास्मिन्हतो युद्धे निहतज्ञातिबान्धवः ॥
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् ।
स्वस्तियुक्तांश्च कल्याणांस्तन्मे प्रियमनुत्तमम् ॥
मा भवन्तोऽत्र तप्यन्तां सौहृदान्निधनेन मे ।
यदि वेदाः प्रमाणं वो जिता लोका मयाऽक्षयाः ॥
जानमानः प्रभावं च कृष्णस्यामिततेजसः ।
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन ।
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ।
यतितं विजये शक्त्या दैवं तु दुरतिक्रमम् ॥
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः ।
तूष्णीबभूव राजेन्द्र रुजाऽसौ विह्वलो भृशम् ॥
तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम् ।
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥
स च क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च ।
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा ।
न तथा तेन तप्यामि तथा राजंस्त्वयाऽद्य वै ॥
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो ।
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः ।
अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् ॥
अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥
तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः ।
मनसः प्रीतिजननं कृपं वचनमब्रवीत् ।
दुर्योधन उवाच ।
आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः ।
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥
तमब्रवीन्महाराज पुत्रस्तव विशाम्पते ।
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ।
सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥
राज्ञो नियोगाद्योद्वव्यं ब्राह्मणेन विशेषतः ।
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः ।
द्रौणिं राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत् ॥
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् ।
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥
दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः ।
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप ।
शोकसंविग्नमनसश्चिन्तामापेदिरे भृशम् ॥ ॥
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां शल्यपर्वणि गदायुद्धपर्वणि षट््षष्टितमोऽध्यायः ॥ 66 ॥ ॥
9-66-5 आदित्यगोचरात््गगनात् । चक्रामादित्यगोचरमिति झ.पाठः
तत्र चक्रमादित्यगोचरं सूर्यमण्डलमिवेति लुप्तोपमा ॥ 9-66-18 कारणान्तरे
अदृष्टरूपे सति । तेन दृष्टसामग्रीवैयर्थ्यं जायत इति भावः ॥ 9-66-66
षट््षष्टितमोऽध्यायः ॥