अध्यायः 003

कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम् ॥ 1 ॥

सञ्जय उवाच ।
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः ।
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥
निहते सूतपुत्रे च फल्गुनेन महात्मना ।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥
विमुखे तव पुत्रे च शोकोपहतचेतसि ।
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥
ध्यायमानेषु योधेषु दुऋखं प्राप्तेषु भारत ।
बलानां मत्यमानानां श्रुत्वा निनदमुत्तमम् ॥
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे । पतितानवनीपालान्धवजांश्चैव महात्मनाम् ।
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत ॥
आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् ।
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ॥
कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः । अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् ।
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः ॥
दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते ।
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा ।
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविन ॥
वधे चैव परो धर्मस्तथाऽधर्मः पलायने । ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ।
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ॥
हते भीष्मे च द्रोणे च कर्णे चैव महारथे । जयद्रथे च निहते तव भ्रातृषु चानघ ।
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥
येषु भारं समासज्य राज्ये मतिमकुर्महि ।
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥
वयं त्विह विनाभूता गुणवद्भिर्महारथैः ।
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् ॥
सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः ।
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् ।
वानरं केतुमासाद्य सञ्चचाल महाचमूः ॥
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च ।
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः ॥
स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् ।
अलातमिव चाविद्वं गाण्डवीं समदृश्यत ॥
जाम्बूनदविचित्रं च धूयमानं महद्धनुः ।
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव ॥
उह्यमानश्च कृष्णेन वायुनेव बलाहकः । तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः ।
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः ॥
गाहमानमनीकानि महेन्द्रसदृशप्रभम् । विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान् ।
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ॥
त्रासयन्तं तथा योधान्धनुर्घोषेण पांण्डवम् ।
भूय एनमपश्याम सिंहं मृगगणानिव ॥
सर्वलोकमहेष्वासो वृषभौ सर्वधन्विनाम् ।
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥
अद्य सप्तदशाहानि वर्तमानस्य भारत ।
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि ॥
वायुनेव विधूतानि एव सैन्यानि गच्छता ।
शरदम्भोदजालानि विशीर्यन्ते समन्ततः ॥
तां नावमिव पर्यस्तां मज्जमानां महार्णवे ।
तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥
क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः ।
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु ॥
दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु ॥
वाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् । सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा ।
सर्वान्विक्रम्य मिपतो लोकमाक्रम्य मूर्धनि ॥
जयद्रथो हतो राजन्किन्नु शेषमुपास्महे ।
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् ॥
तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः ।
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः ॥
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका ।
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे ॥
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् ॥
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् ॥
उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते ।
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति ॥
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना ॥
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु ।
अकारणकृतान्येव तेषां वः फलमागतम् ॥
आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः ।
स ते संशयितस्तात आत्मा च भरतर्षभ ॥
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा ।
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः ।
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ॥
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥
अणिपत्य हि राजानं राज्यं यदि लभेमहि ।
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः ।
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥
`अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः ।
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः ॥
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः ॥
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् ।
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् ॥
नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु ।
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् ।
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ॥
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

9-3-12 शेषास्त्वां पर्युपास्महे इति ङ.पाठः ॥ 9-3-15 कृष्णो नेत्रं नेता यस्य स तथा ॥ 9-3-24 वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जातानीत्यन्वयः । जातानीति शेषः ॥ 9-3-47 अर्जुनं भीमसेनं च इति झ. पाठः । असंशयं गतवैरमित्यर्थः ॥ 9-3-48 वचनं कौरवस्य तु इति झ. पाठः ॥ 9-3-3 तृतीयोऽध्यायः ॥

श्रीः