अध्यायः 009

नकुकेन कर्णपुत्राणां त्रयाणां मारणम् ॥ 1 ॥

सञ्जय उवाच ।
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।
यत्रा राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः ॥
आपतन्तं च सहसा पाण्डवानां महद्बलम् ।
दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम् ॥
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।
व्यतिष्ठत तदा युद्वे सिन्धोर्वेग इवाचलम् ॥
मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् ।
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः ।
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ॥
समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः ।
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ॥
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ।
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ॥
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च । उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ ।
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥
चित्रसेनस्तु भल्लेन पीतेन निशितेन च ।
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् ॥
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥
स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च ।
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥
पद्मामापततस्तस्य शस्वृष्टिं समासृजत् ।
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।
चित्रसेनशिरः कायादपाहरत पाण्डवः ॥
स पपात रथात्तस्माद्दिवाकरसमद्युतिः ॥
चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः ।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।
सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान् ॥
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥
तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ ।
शरौषान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः । अन्यत्कार्मुकमादाय रथमारुह्य वेगवान् ।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः ।
रथं विशकलीकर्तुं समारब्धौ विशाम्पते ॥
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः ॥
ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम् ।
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥
अथान्यं रथमास्थाय धनुरादाय चापरम् ।
सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम् ॥
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् ।
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः ।
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥
अथान्यद्धनुरादाय नकुलः क्रोधमूच्छितः ।
सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥
सत्यसेनस्य स धनुर्हस्तावपं च मारिष ।
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ॥
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा ।
सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत ॥
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः ॥
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा ।
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ॥ स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ।
लेलिहानामिव विमो नागकन्यां महाविषाम् ॥
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥
सा तस्य हृदयं गत्या विभेद शतधा नृप ।
स पवात रथाद्भूमिं यतसत्वोऽल्पत्तेतनः ॥
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः ।
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् ॥
चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः ।
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह ॥
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम् ।
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी ॥
अन्यत्कार्मुकमादाय सुशर्माणमयोधयत् ॥
तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम् ।
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥
सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।
सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत् ॥
ततः क्रुद्धो महाराज नकुलः परवीरहा ।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।
आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे ॥
तस्य तेन शिरः कायाज्जहार नृपसत्तम ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥
स हतः प्रापतद्राजन्नकुलेन महात्मना ।
नदीपेxxxxxxxणस्तीरजः पादपो महान् ॥
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम् ।
प्रदुद्राव भवात्सेना तावकी भरतर्वभ ॥
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान् ।
xxxxxx शूरः सेनापतिररिन्दमः ॥
xxxxxx व्यवस्याप्य च वाहिनीम् ।
xxxxxxx भूशं कृत्वा धनुःशब्दं च दारुणम् ॥
xxxxxx सगरे राजन्रांक्षेता दृढधन्वना ।
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः ॥
मद्रराजं महेष्वासं परिवार्य समन्ततः ।
स्थिता राजन्महासेना योद्वुकामा समन्ततः ॥
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
युधिष्ठिरं पुरस्कृत्य हीनिषेवमरिन्दमम् ॥
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।
बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः ॥
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा ।
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।
तावकानां परेषां च मृत्युं कृत्वा निबर्तनम् ॥
यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते ।
अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम् ॥
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे ।
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥
तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः ।
अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान् ॥
पाण्डवैरवकीर्णानां सम्मोहः समजायत ।
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा ॥
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः । हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः ।
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः ।
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् ।
व्याकुले समपद्येतां वर्षासु सरिताविव ॥
आविवेश ततस्तीव्रं तावकानां महद्भयम् ।
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ ॥

इति श्रीमन्महाभारतेयथा शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे नवमोऽध्यायः ॥ 9 ॥

9-9-9 चित्रसेनः कर्णपुत्रः ॥ 9-9-9 नवमोऽध्यायः ॥ 9 ॥

श्रीः