अध्यायः 010

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु ॥
कूजतां स्तनतां चैव पदातीनां महाहवे ।
निहतेषु महाराज हयेषु बहुधा तदा ॥
प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् ।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।
गाहमानेषु योधेषु परस्परवधैषिषु ॥
प्राणादाने महाघोरे वर्तमाने दुरोदरे ।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः ।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे ।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति ॥
लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना ।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥
बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः ।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला ॥
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति ॥
मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् ।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ॥
पाण्डवा अपि भूपाल समरे जितकाशिनः ।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः ॥
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः ।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥
प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः ।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥
[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।] उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥
मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते ।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥
[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् ॥
शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती ।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु] ॥
ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् ।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप ॥
अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् ।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ॥
अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् ।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः ॥
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ॥
एकैकं दशभिर्बाणैर्विव्याध स महाबलः ।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥
भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा ॥
आविष्ट इव मद्रेशो मन्युना पौरुषेण च । प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः ।
विनर्दमानो मद्रेशो मेघहादो महाबलः ॥
सा वध्यमाना शल्येन पाण्डवानामनीकिनी ।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥
तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः ।
बाणवर्षेण महता युधिष्ठिरमताडयत् ॥
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः ।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ॥
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् ।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः ।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः ।
अभ्यवर्षन्महाराज मेघा इव महीधस्म् ॥
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः ।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ॥
उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः । समागम्याथ शनकैरश्वत्थामा महाबलः ।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥
भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः । बाणवर्षेण महता क्रुद्धरूपमवारयत् ।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् ॥
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥
दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली ॥
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह ।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते ॥
ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे । सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः ।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥
प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् ।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् ।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ॥
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः ।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ॥
[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे ।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ॥
कालो दण़्डमिवोद्यम्य गदां क्रुद्धो महाबलः । पोथयामास तुरगान्रथं च कृतवर्मणः ।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ॥]
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् ।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥
तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् ।
विनाशायाभिसन्धाय गदामादाय वीर्यवान् ॥
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् ।
गजवाजिमनुष्याणां देहान्तकरणीमति ॥
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् ॥
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव ॥
पटुघण्टाशतरवां वासवीमशनीमिव ।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥
त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् ।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् ॥
यया कैलासभवने महेश्वरसखं बली ।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ॥
यया मायामयान्दृप्तान्सुबहून्धनदालये । जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः ।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥
तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् ।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ॥
गदया युद्धकुशलस्तया दारुणनादया ।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् ।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् ॥
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् ।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि ॥
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः ।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् ॥
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः ।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ॥
ततः सुमनसः पार्था भीमसेनमपूजयन् ।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे दशमोऽध्यायः ॥ 10 ॥

9-10-17 भृग्विति । सर्वभूभुजां कृत्स्नपृथ्वीपतीनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन् । एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः ॥ 9-10-18 आहत्य स्पृष्ट्वा । वर्षती भुवि पतन्ती ॥ 9-10-49 परिक्षिप्तां परिच्छन्नाम् ॥ 9-10-51 वासवीमैन्द्रीम् । रासनीमिति पाठे शब्दवतीम् ॥ 9-10-53 महेश्वरसखं कुबेरम् ॥ 9-10-10 दशमोऽध्यायः ॥

श्रीः