अध्यायः 012

शल्यपराक्रमवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
पीडिते धर्मराजे तु मद्रराजेन मारिष । सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
परिवार्य रथैः शल्यं पीडयामासुराहवे ॥
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः ।
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ॥
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ॥
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे ।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया ।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥
नकुलः पञ्चभिश्चैनं सहदेवश्च प़ञ्चभिः ।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः ॥
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः ।
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम् ॥
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष ।
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा ॥
ततः स विशिखं चापं सहदेवस्य धन्विनः ।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥
सहदेवस्तु समरे मातुलं भूरिवर्चसम् । सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ।
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः ॥
सारथिं चास्य समरे शरेणानतपर्वणा ।
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः ॥
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः ।
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् ॥
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः ।
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः ।
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष ।
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः ॥
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः ।
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः ।
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते ।
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः ॥
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः ।
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः ।
तोमरं प्रेषयामास स्वर्णदण्डं महारणे ॥
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् । नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे ॥
तानापतत एवाशु पञ्चानां वै भुजच्युतान् ।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट् ॥
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ।
प्रहितं भीमसेनेन शरं कनकभूषणम् ॥
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ॥
गदां च सहदेवेन शरौघैः समवारयत् ।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ॥
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे ॥
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः ।
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः ॥
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः ।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान् ॥
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः ।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः ॥
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् । निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ।
`तथाविधं महाराज मद्रराजस्य विक्रमम् । असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ ॥'
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् ।
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः ।
वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे ।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः ॥
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे ।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः ॥
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् ।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः ॥
कथं नु न भवेत्सत्यं तन्माधववचो महत् ।
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम ॥
`अहं मद्धातरश्चैव सात्यकिश्च महारथः ।
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम् ॥
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः ।
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम् ॥
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज ।
मद्रराजं समासेदुः पीडयन्तः समन्ततः ॥
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम् ।
व्यधमत्समरे राजा महाभ्राणीव मारुतः ॥
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् ।
शरवृष्टिमपश्याम शलभानामिवायतिम् ॥
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि ।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः ।
निरन्तरमिवाकाशं सम्बभूव जनाधिप ॥
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत ।
बाणान्धकारे महति कृते तत्र महाहवे ॥
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः । चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम् ।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष ।
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः ।
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् ॥
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः ।
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वादशोऽध्यायः ॥ 12 ॥

9-12-25 सहदेवेन प्रेषितामिति पूर्वस्मात्सम्बध्यते ॥ 9-12-27 सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते ॥ 9-12-38 कथन्नु समरे शक्यं--नहि क्रुद्धो रणे इति झ.पाठः ॥ 9-12-12 द्वादशोऽध्यायः ॥

श्रीः