अध्यायः 016

युधिष्ठिरेण शल्यशल्यानुजयोर्वधः ॥ 1 ॥

सञ्जय उवाच ।
तं भीमसेनश्च शिनेश्च नप्ता माद्याश्च पुत्रौ पुरुषप्रवीरौ ।
समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्त ॥
ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम् ।
आवार्य चैनं समरे नृवीरा जघ्नुः शितैः पत्रिभिरुग्रवेगैः ॥
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन ।
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ॥
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् ।
पर्यावव्रुः प्रवराः सर्वयोधा दुर्योधनस्यानुमते पुरस्तात् ॥
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्व्यत् ।
तं चापि पार्थौ नवभिः पृषत्कै-- र्विव्याध राजंस्तुमुले महात्मा ॥
आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः ।
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च ॥
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महबलौ शत्रुभिरप्रधृष्यौ ॥
तयोर्धनुर्ज्यातलनिःस्वनो महा-- न्महेन्द्रवज्राशनितुल्यनिः स्वनः ।
परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्विनाविव ।
विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदर्पौ ॥
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य ।
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण ॥
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् ।
जघान मद्राधिपतिं महात्मा मुदं च लेभे वृषभः कुरूणाम् ॥
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।
शरेण पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः ॥
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य कोपान्नवभिः पृषत्कैः ।
भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः ॥
ततस्तु मद्राधिपतिः प्रकृष्टं धनुर्विकृष्य व्यसृजत्पृषत्कान् ।
द्वाभ्यां शराभ्यां च तथैव राज्ञ-- श्चिच्छेद चापं कुरुपुङ्गवस्य ॥
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्धोरतरं महात्मा ।
शल्यं तु विव्याध शरैः समन्ता-- द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥
ततस्तु शल्यो नवभिः पृषत्कै-- र्भीमस्य राज्ञश्च युधिष्ठिरस्य ।
निकृत्य रौक्मे पटुवर्मणी तयो-- र्विदास्यामास भुजौ महात्मा ॥
ततोऽपरेण ज्वलनार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ ।
कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखः पपात ॥
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् ।
वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः ॥
`यदद्भुतं कर्म न शक्यमन्यैः सुदुःसहं तत्कृतवन्तमेकम् ।
शल्यो नरेन्द्रः सविषण्णभावा-- द्विचिन्तयामास मृदङ्गकेतुः ॥
किमेतदिन्द्रावरजस्य वाक्यं मोघं भवत्यद्य विधेर्बलेन ।
जहीति शल्यं ह्यवदत्तदाऽऽजौ न लोकनाथस्य वचोऽन्यथा स्यात् ॥'
तथा कृते राजनि भीमसेनो मद्राधिपस्याथ ततो महात्मा ।
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥
तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात् ।
जघान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः ॥
तमग्रणीः सर्वधनुर्धराणा-- मेकं चरन्तं समरेऽतिवेगम् ।
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव ॥
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म ।
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् ॥
प्रगृह्य खङ्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् ॥
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् ।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ॥
अथास्य चर्माप्रतिमं न्यकृन्त-- द्भीमो महात्मा नवभिः पृषत्कैः ।
खङ्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ॥
तत्कर्म भीमस्य समीक्ष्य हृष्टा-- स्ते पाण्डवानां प्रवरा रथौघाः ।
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसन्निकाशान् ॥
तेनाथ शब्देन विभीषणेन तथाऽभितप्तं बलमप्रधृष्यम् ।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तदा विषण्णम् ॥
स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः ।
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ॥
स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः ।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत्तमरिं बलेन ॥
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय ।
स धर्मराजो निहताश्वसूतो रथे तिष्ठञ्शक्तिमथान्वकर्षत् ॥
तच्चxx शल्यस्य निशाम्य कर्म तमात्मनो भागमथावशिष्टम् ।
कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे ॥
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् ।
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् ॥
निरीक्षितो धर्मसुतेन राज्ञा षूतात्मना निर्हृतकल्मषेण ।
आसीन्न यद्भस्मसान्मद्रराज-- स्तदद्भुतं मे प्रतिभाति राजन् ॥
ततस्तु शक्तिं रचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम् ।
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ॥
दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसापतन्तीम् ।
प्रैक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम् ॥
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् ।
स ब्रह्मदण्डप्रतिमाममोधां ससर्ज यत्तो युधि धर्मराजः ॥
गन्धस्रगग्र्यासनपानभोजनै-- रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम् ।
भूम्यन्तरिक्षद्युजलाश्रयाणि प्रसह्य भूतानि निहन्तुमीशाम् ॥
घण़्टापताकां मणिवज्रभूषां वैदूर्यचित्रां तपनीयदण्डाम् ।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम् ॥
बलप्रयत्नादनिरोधवेगां मन्त्रैश्च घोरैरपि पूरयित्वा ।
ससर्ज मार्गेण च तां खगानां वधाय मद्राधिपतेस्तदानीम् ॥
हतो ह्यसावित्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम् ।
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ॥
`स्फुरत्प्रभामण्डलिनोंशुजालै-- र्धर्मात्मनो मद्रविनाशकाले ।
पुरत्रयप्रोत्सरणे पुरस्ता-- न्माहेश्वरं रूपमभूत्तदानीम् ॥
आवर्तनाकुञ्चितबाहुदण्डः सन्ध्याविहारी तनुवृत्तमध्यः ।
विशालवक्षा भगवान्हरो यथा सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः' ॥
तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।
प्रतिग्रहायाभिननन्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ॥
सा तस्य वर्माभिविदार्य शुभ्र-- मुरो विशालं च तथैव भित्त्वा ।
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्हरन्ती ॥
नासाक्षिकर्णास्यविनिः सृतेन प्रस्यन्दता च व्रणसम्भवेन ।
संसिक्तगात्रो रुधिरेण सोऽभू-- त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥
प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन ।
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ॥
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः । बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् ।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ॥
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ।
प्रियया कान्तया कान्तः पतमान इवोरसि ॥
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः ।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् ॥
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना ।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे ॥
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् ।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति ॥
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् । व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् ।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव । निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः ।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः ॥
ततः शल्ये निपतिते मद्रराजानुजो युवा ।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात् ॥
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् ।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः ॥
तं विव्याधाशुगैः ष़ड््भिर्धर्मराजस्त्वरन्निव ।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् ।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः ॥
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात् ।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे ।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः ॥
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः ।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम् ॥
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः ॥
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम् ।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ ॥
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् ।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान् ॥
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम् ॥
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः ।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो ।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् ॥
मद्रराजे हते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते ।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम् ॥
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् ।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् ।
जवेनापततः पार्थानेकः सर्वानवारयत् ॥
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् ।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत् ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् ।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथः । चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ।
विव्याध गौतमं चापि ष़ड््भिर्भल्लैः सुतेजनैः ॥
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम् ।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम् ।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥
एवमेतन्महाराज युद्धशेषमवर्तत ।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥
तस्मिन्महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन ।
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् ।
चक्रुश्च नानाविधवाद्यशब्दा-- न्निनादयन्तो वसुधां समन्तात् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥

9-16-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात् ॥ 9-16-47 तोयमिव सुप्रवेशाङ्गाम् । अप्रसक्तः अप्रतिहता । नृपतेः शल्यस्य ॥ 9-16-16 षोडशोऽध्यायः ॥

श्रीः