अध्यायः 019

सात्यकिना साल्ववधः ॥ 1 ॥

सञ्जरा उवाच ।
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः ।
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम् ॥
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् ।
सप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥
योऽसौ महान्भद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् ।
सुकल्पितः शास्त्रविनिश्चयज्ञैः सदौपवाह्यः समरेषु राजन् ॥
ऐरावतं दैत्यगणान्विमृद्र-- ञ्शक्रो यथा सञ्जनयन्भयानि ।
तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते ॥
स तेन नागप्रवरेण राज-- न्नभ्युद्ययौ पाण्डुसुतान्समेतान् ।
शितैः पृषत्कैर्विददार वेगै-- र्महेन्द्रवज्रप्रतिमैः सुघोरैः ॥
ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमालयम् ।
नास्यानत्रं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः ॥
ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेकनागं ददृशुः समन्तात् ।
सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे ॥
सन्द्राव्यमाणं तु बलं परेषां परेतकल्पं विबभौ समन्ततः ।
नैवावतस्थे समरे भृशं भया-- द्विमृद्यमानं तु परस्परं तदा ॥
ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन ।
दिशश्चतस्रः सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती ॥
दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः ।
अपूजयंस्ते तु नराधिपं तं दध्मुश्च शङ्खाञ्शशिसन्निकाशान् ॥
श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः ।
सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न कोपात् ॥
ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय ।
जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥
तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहः ।
तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य ॥
स तं द्विपेन्द्रं सहसापतन्त-- मविध्यदग्निप्रतिमैः पृषत्कैः ।
कर्मारधौतैर्निशितैर्ज्वलद्भि-- र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥
ततोऽपरान्पञ्चशतान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे ।
स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे ॥
तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं विनिवर्त्य साल्वः ।
तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य सुतं प्रदिश्य ॥
दृष्ट्वा पतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव ।
गदां प्रगृह्योग्रजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः ॥
स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य ।
उत्क्षिप्य हस्तेन नदन्महाद्विपो विपोथयामास वसुन्धरातले ॥
पाञ्चालराजस्य सुतं च दृष्ट्वा तदार्दितं नागवरेण तेन ।
तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता ॥
शरैश्च वेगं सहसा निगृह्य तस्याभितो व्यापततो गजस्य ।
स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च सङ्ख्ये ॥
ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् ।
तैराशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुः सहितास्तत्रतत्र ॥
तत्कर्म साल्वस्य समीक्ष्य सर्वे पाञ्चालपुत्रा नृप सृञ्जयाश्च ।
हाहाकारैर्नादयन्ति स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥
पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् ।
ससम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् ॥
ततस्तु नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् ।
गदां समातिध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी ॥
स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् ।
पपात नागो धरमीधराभः क्षितिप्रकम्पाच्चलितो यथाऽद्रिः ॥
निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये ।
स साल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन ॥
हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा ।
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन ॥ ॥

इति श्रीमन्महाभारते शल्यवधपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥

श्रीः