अध्यायः 020

सात्यकिना कृतवर्मपराजयः ॥ 1 ॥

सञ्जय उवाच ।
तस्मिंस्तु निहते शूरे साल्वे समितिशोभने ।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।
दधार समरे शूरः शत्रुसैन्यं महाबलः ॥
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि ॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह ।
यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् ॥
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम् ॥
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ ॥
पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः ।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ ॥
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥
चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥
स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः ।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः ॥
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः ।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः ॥
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः ।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः ॥
ततो राजन्महेष्वासः कृतवर्मा महारथः ।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥
रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष ।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् ॥
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः । चूर्णितं पातयामास मोहयन्निव माधवम् ।
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥
सुयुद्वे युयुधानेन हताश्वो हतसारथिः ।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत ॥
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥
पुत्राणां तव चात्यर्थं विषादः समजायत ।
हतसूते हताश्वे तु विरथे कृतवर्मणि ॥
हताश्वं च समालक्ष्य हतसूतमरिन्दम ।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।
अपोवाह महाबाहुं तूर्णमायोधनादपि ॥
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः ।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् ।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष ।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ॥
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः । यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते ।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वमि शल्यवधपर्वणि अष्टादशदिवसयुद्धे विंशोऽध्यायः ॥ 20 ॥

9-20-3 सात्वतं कृतवर्माणम् ॥ 9-20-20 विंशोऽध्यायः ॥

श्रीः