अध्यायः 021

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः ।
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही ।
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे ।
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः ॥
यं यं हि समरे योधं प्रपश्यामि विशाम्पते ।
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥
यथा सैन्येन रजसा समुद्भूतेन वाहिनी ।
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ॥
बाणभूतामपश्याम पृथिवीं पृथिवीपते ।
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ॥
तेषु योधसहस्रेषु तावकेषु परेषु च ।
नास्ति दुर्योधनसमः पुमानिति मतिर्मम ॥
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् ।
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत ॥
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ ।
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः ॥
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः ।
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ॥
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ।
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ॥
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः ।
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ॥
नकुलस्तु ततो वीरो राजानं नवभिः शरैः ।
घोररूपैर्महेष्वासो विव्याध च ननाद च ॥
सात्यकिश्चैव राजानं शरेणानतपर्वणा । द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः ।
अशीत्या भीमसेनश्च शरै राजानमार्पयन् ॥
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः ।
न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥
लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः ।
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः ॥
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम् ।
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ॥
तेषामापततां घोरस्तुमुलः समपद्यत ।
क्षुब्धस्य हि समुद्रस्य प्रावृट््काले यथा स्वनः ॥
समासाद्य रणे ते तु राजानमपराजितम् ।
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत् । तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ।
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥
तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ ।
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ॥
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ ।
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ॥
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो ।
नादं चकार बलवत्सर्वसैन्यानि कम्पयन् ॥
एतस्मिन्नन्तरे वीरं राजानमपराजितम् ।
अपोवाह रथेनाजौ सहदेवः प्रतापवान् ॥
अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः । शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।
ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥
तद्युद्धमभवच्चित्रं घोररूपं च मारिष ।
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् ॥
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् ।
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः ॥
तथैव नकुलः शूरः सौबलस्य सुतं रणे ।
शरवर्षेण महता समन्तात्पर्यवारयत् ॥
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ ।
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ ॥
तथैव कृतवर्माणं शैनेयः शत्रुतापनः ।
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे ॥
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे ।
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् ।
राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ ।
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः ॥
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान् ।
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः ॥
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः ।
घोररूपमसंवार्यं निर्मर्यादमवर्तत ॥
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम् ।
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ॥
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत ।
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ॥
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा ।
हया हयैः समासक्ता रथिनो रथिभिः सह ॥
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते ॥
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो ।
युद्धान्यासन्महाराज घोरांणि च बहूनि च ॥
ते समासाद्य समरे परस्परमरिन्दमाः ।
व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे ॥
तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत ।
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् ।
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ ॥
रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः ।
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः ॥
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः ।
वीरशोणितसिक्तायां भूमौ भरतसत्तम ॥
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत ।
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम् ॥
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः । शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥

9-21-42 पत्रं वाहनम् ॥ 9-21-21 एकविंशोऽध्यायः ॥

श्रीः