अध्यायः 023

अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम् ॥ 1 ॥

सञ्जय उवाच ।
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले ।
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः ॥
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि ।
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः ॥
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः ।
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ ॥
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः ।
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ॥
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः ।
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः ॥
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ।
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा ॥
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप ।
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः ॥
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् ।
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते ।
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ॥
जहि राजन्रथानीकमश्वाः सर्वे जिता मया ।
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ॥
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते ।
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥
श्रुत्वा तु वचनं तस्य तावका जयगृद्विनः ।
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥
बद्वनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः ।
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे ॥
ततो ज्यातलनिर्धोषः पुनरासीद्विशाम्पते ।
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान् ।
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ॥
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् ।
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन ।
वर्तमानस्य महतः समासाद्य परस्परम् ॥
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् ।
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव ।
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत ॥
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव ।
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव ।
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ ।
न जाने कारणं किन्तु येन युद्धमवर्तत ॥
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् ।
पतिते शन्तनोः पुत्रे येऽकार्युः संयुगं पुनः ॥
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे ।
राधेये च विकर्णे च नैव शाम्यति वैशसम् ॥
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते ।
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम् ॥
श्रुतायुषि हते वीरे जलसन्धे च मागधे ।
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम् ॥
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन ।
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम् ॥
जयद्रथे च निहते राक्षसे चाप्यलायुधे ।
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम् ॥
भगदत्ते हते शूरे काम्भोजे च सुदारुणे ।
दुःशासने च निहते नैव शाम्यति वैशसम् ॥
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण़्डलिकान्नृपान् ।
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम् ॥
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान् ।
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम् ॥
`हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे ।
अलम्बले च निहते नैव शाम्यति वैशसम् ॥
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि ।
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्' ॥
को नु राजकुले जातः कौरवेषु विशेषतः ।
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा ।
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः ।
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम् ॥
येन शान्तनवो भीष्मो द्रोणो विदुर एव च ।
प्रत्याख्याताः शंमस्यार्थे किन्नु तस्याद्य भेषजम् ॥
मौर्ख्याद्येन पिता वृद्वः प्रत्याख्यातो जनार्दन ।
तथा माता हितं वाक्यं भाषमाणा हितैषिणी ॥
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ।
कुलान्तकरणो व्यक्तं जात एष जनार्दन ॥
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते ।
नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥
उक्तोऽहं बहुशस्तात विदुरेण महात्मना ।
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः ॥
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः ।
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम् ॥
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव ।
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ॥
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः ।
यदुक्तं वचनं तेन विदुरेण महात्मना ॥
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् ।
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने ।
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥
तदिदं वचनं तेषां निरुक्तं वै जनार्दन ।
क्षयं याता हि राजानो दुर्योधनकृते भृशम् ॥
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ॥
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ।
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ॥
तदन्तं हि भवेद्वैरमनुमानेन माधव । एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया ।
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥
तस्माद्याहि चमूं वीर यावद्वन्मि शितैः शरैः ।
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे ॥
क्षेममद्य करिष्यामि धर्मराजस्य माधव ।
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥
सञ्जय उवाच ।
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना ।
तद्बलौघममित्राणामभीतः प्राविशद्बलात् ॥
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम् ।
गदापरिघपाषाणं रथनागमहाद्रुमम् ॥
हयपत्तिलताकीर्णं गाहमानो महायशाः ।
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ॥
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे ।
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः ।
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा ॥
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् ।
इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि ।
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते ।
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ॥
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः ।
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा ॥
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः ।
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः ।
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः ॥
शरचापधरः पार्थः प्रज्वलन्निव भास्करः ।
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥
यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सुघोषः ।
भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी ॥
एवं स नाराचगणम्प्रतापी शरार्चिरुच्चावचतिग्मतेजाः ।
ददाह सर्वां तव पुत्रसेना-- ममृष्यमाणस्तरसा तरस्वी ॥
तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः ।
न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा ॥
अनेकरूपाकृतिभिर्हि बाणै-- र्महारथानीकमनुप्रविश्य ।
स एव एकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः ॥ 23 ॥

9-23-42 पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः ॥ 9-23-23 त्रयोविंशोऽध्यायः ॥

श्रीः