अध्यायः 024

धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम् ॥ 1 ॥ अश्वत्थामादिभिस्तदन्वेषणम् ॥ 2 ॥

सञ्जय उवाच ।
युध्यतां यतमानानां शूराणामनिवर्तनाम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ॥
पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे ॥
हतधुर्या रथाः केचिद्धतसूतास्तथा परे ।
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते ॥
अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः ।
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः ।
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः ॥
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा ।
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते ॥
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः ।
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः ॥
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम् ।
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥
तानपास्य गताः केचित्पुनरेव युयुत्सवः ।
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् ।
वर्माणि च समारोप्य केचिद्भरतसत्तम ॥
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च ।
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥
सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते ।
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे ।
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः ।
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः ।
नाकुलिस्तु शतानीको रथानीकमयोधयन् ॥
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः ।
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः ॥
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप ।
बाणसङ्घाननेकान्वै प्रेषयामास भारत ॥
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना ।
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः ॥
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः ।
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः ॥
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः । तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।
अपाक्रामद्वतरथो नातिदूरमरिन्दमः ॥
दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः ।
तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन् ॥
ते वृताः समरे पञ्च गजानीकेन भारत ।
अशोभन्त महाराज ग्रहास्तारागणैरिव ॥
ततोऽर्जुनो महाराज लब्धलक्षौ महाभुजः ।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत् ॥
तत्रैकबाणनिहतानपश्याम महागजान् ।
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना ॥
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः । करेणादाय महतीं गदामभ्यपतद्बली ।
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् ।
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः ॥
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥
गदया भीमसेनेन भिन्नकुम्भान्निपातितान् ।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥
प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः ।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥
प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः ।
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम् ।
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते ॥
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान् ।
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत् ॥
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ।
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥
तेऽपश्यमाना राजानं वर्तमाने जनक्षये । मन्वाना निहतं तत्र तव पुत्रं महारथाः ।
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥
आहुः केचिद्वते सूते प्रयातो यत्र सौबलः ।
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः । दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति ।
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन् ॥
इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः ।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः ।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् ।
पराक्रान्तास्ततो वीरा निराशा जीविते तदा ॥
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ।
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ॥
राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः ।
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ॥
तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः ।
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः ॥
धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान् ।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥
अथापश्यं सात्यकिं तमुपायातं महारथम् ।
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे ॥
धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात् ।
पतितो माधवानीकं दुष्कृती नरकं यथा ॥
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम् ॥
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् ।
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि ॥
ततो मुहूर्तादिव तद्गजानीकमविध्यत ।
गदया भीमसेनेन नाराचैरर्जुनेन च ॥
अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः ।
नातिप्रसिद्धैव गतिः पाण्डवानामजायत ॥
रथमार्गं ततश्चक्रे भीमसेनो महाबलः ।
पाण्डवानां महाराज व्यपाकर्षन्महागजान् ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । अपश्यन्तो रथानीके दुर्योधनसमरिन्दमम् ।
राजानं मृगयामासुस्तव पुत्रं महारथम् ॥
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः ।
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः ॥ 24 ॥

9-24-4 सम्प्रदुद्रावेति पूर्वस्थं सम्प्रदुद्रुवुरिति विपरिणामेन सम्बध्यते ॥ 9-24-24 चतुर्विंशोऽध्यायः ॥

श्रीः