अध्यायः 025

भीमेनावशिष्टानां दुर्योधनानुजानां वधः ॥ 1 ॥

सञ्जय उवाच ।
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत ।
वध्यमाने बले चैव भीमसेनेन संयुगे ॥
चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम् ।
दण्डहस्तं यथा क्रुद्वमन्तकं प्राणहारिणम् ॥
समेत्य समरे राजन्हतशेषाः सुतास्तव । अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ।
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥
श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः ।
दुर्विमोचनकश्चैव तथा दुर्विषहो बली ॥
दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः । इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ।
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम् ॥
ततो भीमो महाराज स्वरथं पुनरास्थितः ।
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे ।
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम् ॥
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह ।
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥
ततोऽपरेण भल्लेन सर्वावरणभेदिना ।
श्रुतान्तमवधीद्बीमस्तव पुत्रं महारथः ॥
जयत्सेनं ततो विद्वा नाराचेन हसन्निव । पातयामास कौरव्यं रथोपस्थादरिन्दमः ।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।
शतेन गृघ्रवाजानां शराणां नतपर्वणाम् ॥
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः ॥
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः ।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥
ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः ।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥
दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव । एकैकं न्यहनत्सङ्ख्ये द्वाभ्यांद्वाभ्यां चमूमुखे ।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव ।
भल्लेन पातयामास भीमो दुर्विपहं रणे ॥
स पपात हतो बाहात्पश्यतां सर्वधन्विनाम् ॥
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे ।
अमर्षधशमापसः श्रुतर्वा भीममभ्ययात् ॥
विक्षिपन्सुमहच्चापं कार्तखरविभूषितम् ।
विमृजन्सायकांश्चैव विषाग्निप्रतिमान्वहून् ॥
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे ।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥
ततोऽन्यद्धनुरादाय भीमसेनो महाबलः ।
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत् ॥
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् ।
बादृशं समरे पूर्वं तम्भवासवयोर्युधि ॥
तयोस्तत्र शितैर्गुक्तैर्यमदण्डनिभैः शरैः ।
समाच्छकाधारा सर्वा त्वं दिशो विदिशस्तथा ॥
अतः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः ।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना ।
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष ।
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम् ॥
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥
श्रुतर्वा विरथो राजन्नाददे खङ्गचर्मणी । अथास्याददतः खह्गं शतचन्द्रं च भानुमत् ।
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः ॥
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना ।
पपात कायः स्वरथाद्वसुधामनुनादयन् ॥
तस्मिन्निपतिते वीरे तावका भयमोहिताः ।
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ॥
तानापतत एवाशु हतशेषाद्बलार्णवात् ।
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् ॥
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥
ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः ।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥
हत्वा शतसहस्राणि पत्तीनां परमेषुभिः ।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् ।
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप ॥
विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान् ।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥
हतभूयिष्ठयोधा तु तव सेना विशामम्पते ।
किञ्चिच्छेषा महाराज कृपणं समपद्यत ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः ॥ 25 ॥

9-25-7 प्रवणादिव कुञ्जरमिति झ.पाठः ॥ 9-25-25 पञ्चविंशोऽध्यायः ॥

श्रीः