अध्यायः 027

सहदेवेन शकुन्युलूकयोर्वधः ॥ 1 ॥

सञ्जय उवाच ।
तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो शकुनिः सौबलो राजन्सहदेवं xxxxxxयात् ॥
ततोऽस्यापततस्तूर्णं सहदेवः पतापवान् । शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् ।
उलूकं च रणे राजन्विव्याध दशभिः शरैः ॥
शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः ।
नवत्या निशितैर्बाणैः सहदेवमवाकिरत् ॥
ते शूराः समरे राजन्समासाद्य परस्परम् । विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः ॥
तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते ।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ॥
ताभ्यां शरशतैश्छनं तद्बलं तव भारत ।
सान्धकारमिवाकाशमभवत्तत्रतत्र ह ॥
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते ।
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥
निहतानां हयानां च सहैव हयसादिभिः ।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ॥
ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः ।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥
योधास्तत्र महाराज समासाद्य परस्परम् ।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः ।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः ॥
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः ।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः ॥
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि ।
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो ॥
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥
स विह्वलो महाराज रथोपस्थ उपाविशत् ॥
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् ।
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ॥
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः ।
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः ॥
तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः ।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥
इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते ।
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् ॥
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः ।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः ।
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम् ॥
तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान् ।
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः ॥
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते । शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः ॥
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥
तं भीमसेनः समरे विव्याध नवभिः शरैः ।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः । सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।
उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥
स जगाम रथाद्भूमिं सहदेवेन पातितः ।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत ।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् ।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान् ।
सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा ।
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत् ॥
तमापतन्तं सहसा घोररूपं विशाम्पते ।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम् ।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम् ।
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः ॥
तामापतन्तीं सहसा शरैः कनकभूषणैः ।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा ।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा ॥
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् ।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन् ॥
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् ।
शरैरनेकसाहस्रैर्वारयामास संयुगे ॥
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम् ।
आससाद रमे यान्तं सहदेवोऽथ सौबलम् ॥
स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप ।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ॥
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ।
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः ॥
भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम् ।
उवाच चैनं मेधावी विगृह्य स्मारयन्निव ॥
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव । यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले ।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा ।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः ॥
अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः ।
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना ॥
एवमुक्त्वा महाराज सहदेवो महाबलः ।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम् ॥
अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः ।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव ॥
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः ।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत् ॥
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः ।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥
ततो भूयो महाराज सहदेवः प्रतापवान् ।
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम् ॥
ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे ।
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् ॥
माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे ।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ननाद चोच्चैस्तरसाऽऽजिमध्ये ॥
तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन ।
भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः ॥
शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन ।
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः ॥
स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन ।
प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् ॥
भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात्कबन्धं रुधिरावसिक्तम् ।
विस्पन्दमानं निपपात घोरं रथोत्तमात्पार्थिव पार्थिवस्य ॥
हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् ।
योधास्त्वदीया भयनष्टसत्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥
प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा गाण्डीवघोषेण समाहताश्च ।
भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः ॥
ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः ॥
तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ ।
दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः ॥ 27 ॥

9-27-7 अलङ्कृतमिवाकाशं इति क.पाठः ॥ 9-27-49 यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः इति झ.पाठः ॥ 9-27-27 सप्तविंशोऽध्यायः ॥

श्रीः