अध्यायः 030

कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम् ॥ 1 ॥ व्याधनिवेदनेन सपरिवारैः पाण़्डवैर्ह्रदं प्रत्यागमनम् ॥ 2 ॥ तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम् ॥ 3 ॥ दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम् ॥ 4 ॥

`सञ्जय उवाच ।
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत ।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले ॥
यत्र शब्देन महता नान्वबुध्यन्महारथाः ।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्' ॥
धृतराष्ट्र उवाच ।
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे ।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय ॥
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् ।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥
सञ्जय उवाच ।
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम् ।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम् । विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः ।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः ॥
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे ।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः ।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम् ॥
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत् ।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः ।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः ॥
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः ।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः ॥
ते तं हदं समासाद्य यत्र शेते जनाधिपः ।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् ।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥
तेषामपि बलं सर्वं हतं दुर्योधन त्वया ।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥
न ते वेगं विषहितुं शक्तास्तव विशाम्पते ।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत ॥
दुर्योधन उवाच ।
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् ।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् ॥
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः । भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः ।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः ।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे ॥
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे ।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम ॥
सञ्जय उवाच ।
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् ।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान् ॥
इष्टापूर्तेन दानेन सत्येन च जपेन च ।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम् ।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ॥
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो ।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः ।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः ।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो ॥
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः ।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ॥
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे ।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् ।
अयुद्धमनसं चैव राजानं स्थितमम्भसि ॥
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः ।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव ।
यदृच्छोपगतास्तत्र राजानं परिमार्गता ॥
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा ।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव ॥
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः ।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः ॥
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः ।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते ।
शयानं सलिले सर्वे कथयामो धनुर्भृते ॥
स नो दास्यति सुप्रीतो धनानि बहुलान्युत ।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ॥
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः ।
मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥
पाण़्डवाश्च महाराज लब्धलक्षाः प्रहारिणः ।
अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया ।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे ॥
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् ।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥
`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत् ।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः' ॥
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् ।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥
ते तु पाण्डवमासाद्य भीमसेनं महाबलम् ।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु ।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ॥
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः ।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते ।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे ।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम् ॥
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते ।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम् ॥
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे ।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् ।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते ॥
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम् ।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ॥
उत्तमौजा युधामन्युः सात्यकिश्च महारथः । पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत ।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥
ततः प्राप्तो महाराज धर्मराजः प्रतापवान् ।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत् ॥
शीतामलजलं हृद्यं द्वितीयमिव सागरम् ।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः ॥
अत्यद्भुतेन विधिना दैवयोगेन भारत ।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो ।
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ॥
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन् ।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ॥
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः ।
आजगाम महाराज तव पुत्रवधाय वै ॥
महता शङ्खनादेन रथनेमिस्वनेन च ।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम् ॥
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः ।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ॥
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः ।
अपयास्यामहे तावदनुजानातु नो भवान् ॥
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम् ।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो ॥
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः ।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः ॥
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष ।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः ।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ॥
कथं नु युद्धं भविता कथं राजा भविष्यति ।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ॥
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते ।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः ॥ 30 ॥

9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात् । इति ङ. पाठः ॥ 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम् ॥ 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः ॥ 9-30-30 त्रिंशोऽध्यायः ॥

श्रीः