अध्यायः 031

युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम् ॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः ॥ 2 ॥

सञ्जय उवाच ।
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः ।
तं हदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं हदम् ।
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ।
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ॥
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ।
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ॥
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते । यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् ।
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव ॥
वासुदेव उवाच ।
मायाविन इमां मायां मायया जहि भारत ।
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥
क्रियाभ्युपायैर्बहुभिर्भायामप्सु प्रयोज्य च ।
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् ॥
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः ।
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना ॥
क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः ।
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥
वृत्रश्च निहतो राजन्क्रिययैव महाबलः । तथा पौलस्त्यतनयो रावणो नाम राक्षसः ।
रामेण निहतो राजन्सानुबन्धः सहानुगः ॥
क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥
क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ ।
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो ।
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो ।
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ॥
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा ।
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥
सञ्जय उवाच ।
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः । जलस्थं तं महाराज तव पुत्रं महाबलम् ।
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया ।
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते ॥
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ।
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि ।
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः ।
कौरवेयो विशेषेण कुलं जन्म च संस्मर ॥
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः ।
युद्वात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि ॥
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ॥
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ।
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ॥
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा । सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा ।
घातयित्वा कथं तात हदे तिष्ठति साम्प्रतम् ॥
शूरमानी न शूरस्त्वं मृषा वदसि भारत ।
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन ।
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् ॥
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः ।
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया ।
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन ॥
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् ।
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् ॥
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत ।
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन ।
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये ।
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत ॥
एष ते परमो धर्मः सृष्टो धात्रा महात्मना ।
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः ॥
सञ्जय उवाच ।
एवमुक्तो महाराज धर्मपुत्रेण धीमता ।
सलिलस्थस्तव सुत इदं वचनमब्रवीत् ॥
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् ।
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः ।
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥
न प्राणहेतोर्न भयाश्च विषादाद्विशाम्पते ।
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव ।
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥
युधिष्ठिर उवाच ।
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे ।
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि ।
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥
दुर्योधन उवाच ।
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन ।
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् ।
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर ।
भङ््क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् ।
द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥
अस्त्विदानीमियं राजन्केवला पृथिवी तव ।
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥
सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि ।
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः ।
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा ।
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः ॥
वनमेव गमिष्यामि वसानो मृगचर्मणी ।
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो ॥
गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् ।
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् ॥
[सञ्जय उवाच ।
दुर्योधनं तव सुतं सलिलस्थं महायशाः । श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ॥]
युधिष्ठिर उवाच ।
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः ।
नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन ।
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् ।
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् ।
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् ॥
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि ।
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः ।
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबालम् ॥
किमिदानीं ददासि त्वं को हि ते जित्तविभ्रमः ।
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं ॥
न त्वमद्य महीं दातुमीशः कौरवनन्दन ।
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ।
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत ॥
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् ।
स कथं पृथिवीमेतां प्रददासि विशाम्पते ॥
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् ।
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे ।
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे ॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् ।
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् ।
संशयः सर्वभूतानां विजये नौ भविष्यति ॥
जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते ।
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः ॥
दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः । आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः ।
त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च ।
एतस्मात्कारणात्पाप जीवितं न विद्यते ॥
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति ॥
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः ।
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः ॥ 31 ॥

9-31-7 कियाभ्युपायैः शत्रुकियानुरूपैः प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः । एतेतु च्छलकारिणश्छलैरेव हन्तव्या इति भावः । माययैव सुयोधनं इति क.पाठः ॥ 9-31-11 विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि विक्रमात् इति क.पाठः ॥ 9-31-12 क्रियाभ्युपायैर्निहतो मयो नाम महासरः । इति क.पाठः ॥ 9-31-27 हे शूरेति साधिक्षेपसम्बोधनम् । यया वृत्त्या निमित्तभूतया । वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि । न त्वं वानप्रस्थोऽसि राज्यार्थिवात् । नापि न्यस्तशस्त्रो गदाधारित्वात् । परिशेषात क्लीबोऽस्मीति मा भाषस्व । युद्धं कुर्विति भावः ॥ 9-31-32 पौरुषं यत्नः । विक्रान्तता शौर्यम् । विस्फूर्जितं गर्जनम् ॥ 9-31-49 हतापत्यस्य भारत इति क.पाठः ॥ 9-31-52 निहतत्विषमिति क.ङ.पाठः ॥ 9-31-31 एकत्रिंशोऽध्यायः ॥

श्रीः