अध्यायः 032

युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम् ॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः ॥ 2 ॥

धृतराष्ट्र उवाच ।
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः ।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ॥
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन ।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा । खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः ॥]
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् ।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय ॥
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः ।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम् ॥
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः ।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः ।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः ।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः ॥
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः ।
मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः ।
अहमेकः परिद्यूनो विरथो हतवाहनः ॥
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः ।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह ॥
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर ।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि ॥
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः ।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् ।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः ॥
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः ।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः ॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप ।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे ।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत ॥
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् ।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये ॥
तेजसा नाशयिष्यामि स्थिरीभवत पाण़्डवाः ।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां ॥
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ॥
मद्रराजस्य शल्यस्य भूरिश्रवस एव च ।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ॥
मेत्राणां सुहृदां चैव बान्धवानां तथैव च ।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह ॥
सञ्जय उवाच ।
एतावदुक्त्वा वचनं विरराम जनाधिपः । `सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव ॥'
युधिष्ठिर उवाच ।
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन ।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम् ।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि ॥
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् ।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् ।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि ॥
दुर्योधन उवाच ।
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम् ।
आयुधानामियं चापि मता मे सतं गदा ॥
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते ।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ॥
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे ।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः ।
युद्धानामपि पर्यायो भवत्वनुमते तव ॥
गदया त्वां महाबाहो विजेष्यामि सहानुजम् । पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर ॥
युधिष्ठिर उवाच ।
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन ।
एक एकेन सङ्गम्य संयुगे गदया बली ॥
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः ।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः ॥
सञ्जय उवाच ।
एतत्स नरशार्दूलो नामृष्यत तवात्मजः ।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः ।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव ॥
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् । अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् ।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव ॥
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् ।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम् ॥
*सगदो भारतो भाति प्रतपन्भास्करो यथा* ॥
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् ।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम् ॥
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् ।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप ॥
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः ।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव ।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः ।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान् ॥
दुर्योधन उवाच ।
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः ।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव ।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् ।
शरीरं स्म तदा भाति स्रवन्निव महीधारः ॥
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः ।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम् ॥
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः ।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥
दुर्योधन उवाच ।
एकैकेन च मां यूयमासीदत युधिष्ठिर ।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि ॥
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः ।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह ।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा] ॥
युधिष्ठिर उवाच ।
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन ।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् ।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम् ॥
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः ।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा ॥
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु ।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् ॥
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् । पदस्थः पिहितं द्वारं परलोकस्य पश्यति ॥]
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च ।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ॥
इममेकं च ते कामं वीर भूयो ददाम्यहम् ।
पञ्चानां पाण़्डवेयानां येन त्वं योद्धुमिच्छसि ॥
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि ।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥
सञ्जय उवाच ।
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् ।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि ।
अब्रवीत्पाण़्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥
भ्रातॄणां भवतामेको युध्यतां गदया मया ।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ॥
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् ।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया ॥
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये ।
गदया वो हनिष्यामि सर्वानेव समागतान् ॥
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन । न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः ।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः ॥
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति ।] गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः ॥ 9-32-10 परिद्यूनः परिश्रान्तः ॥ 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः ॥ 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः ॥ 9-32-56 क्षत्रधर्मं अस्तीति शेषः । धर्मोऽस्त्री पुण्यआचारे इति मेदिनी ॥ 9-32-32 द्वात्रिंशोऽध्यायः ॥

श्रीः