अध्यायः 033

युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप राजये स्वस्य संशयोक्तिः ॥ 1 ॥ भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम् ॥ 2 ॥ भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः ॥ 3 ॥

सञ्जय उवाच ।
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥
यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर ।
अर्जुनं नकुलं चैव सहदेवमथापि वा ॥
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥
एतेन हि कृता योग्या वर्षाणीह त्रयोदश ।
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥
कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।
विषमं शकुनेश्चैव तव चैव विशेषतः ॥
बली भीमः समर्थश्च कृती राजा सुयोधनः ।
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥
कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा । [कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम् ।]
पातितश्चैकबाणेन शोचयेदेवमाहवे ॥
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे ।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि ॥
फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा ।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥
न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः ।
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः ॥
स कथं वदसे शत्रुं युध्यस्व गदयेति हि ।
एकं च नो निहत्याजौ भव राजेति भारत ॥
वृकोदरं समासाद्य संशयो वै जये हि नः ।
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥
[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः । अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ॥]
भीमसेन उवाच ।
मधुसूदन माकार्षीविषादं यदुनन्दन ।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः ।
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते ॥
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् ॥
अनया गदयानाहं संयुगे योद्धुमुत्सहे ।
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन ॥
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् ॥
सञ्जय उवाच ।
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् ।
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् ॥
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे ।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् ।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति ।
त्वमस्य सक्थिनी भंक्त्वा प्रतिज्ञां पालयिष्यसि ॥
यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः ।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर ॥
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे ।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् ।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहते गदया पापे अद्य राजन्सुखी भव ॥
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥
[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् ।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् ॥
गदाहस्तं तव सुतं युद्धाय समुपस्थितम् ।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्] ॥
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् ।
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥
[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा ।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे] ॥
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम् ।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् । स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते ।
द्रौपदी च परामृष्टा समामध्ये रजस्वला ।
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात् ॥
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि ।
अनागासु च पार्थेषु तस्य पश्य महत्फलम् ॥
त्वत्कृते निहतः शेते शरतल्पे महायशाः ।
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥
हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान् ।
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे ॥
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥
एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् ॥
दुर्योधन उवाच ।
किं कत्थितेन बहुना युध्यस्वाद्य मया सह ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् ।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥
गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः ।
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः ॥
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते ॥
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः ।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः ।
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः ॥
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

9-33-4 योग्या अभ्यासः । योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी ॥ 9-33-7 शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः ॥ 9-33-10 पणित्वा चैकपाणेन रोचयेदेव माहवम् इति झ.पाठः ॥ 9-33-33 त्रयस्त्रिंशोऽध्यायः ॥

श्रीः