अध्यायः 005

कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिविरद्वारगमनम् ॥ 1 ॥ कृपकृतवर्मश्यामपि सौहार्दात्तदनुगमनम् ॥ 2 ॥

कृप उवाच ।
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः ।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥
तथैव तावन्मेधावी विनयं यो न शिक्षते ।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥
[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह ।
न स धर्मान्विजानाति दर्वी सूपरसानिव ॥
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि ।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव ॥
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः ।
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः ।
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम् ॥
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् ।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते ।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम् ।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः ॥
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना ।
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे ॥
न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥
ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः ।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो ।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः ।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे ॥
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः ।
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ ।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥
असम्भावितरूपं हि त्वयि कर्म विगर्हितम् ।
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥
अश्वत्थामोवाच ।
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल ।
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः ॥
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः ।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना ॥
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः ।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे ।
क्रोशतां बूमिपालानां युयुधानेन पातितः ॥
दुर्योधनश्च भीमेन समेत्य गदया मृधे ।
पश्यतां भूमिपालानामधर्मेण निपातितः ॥
एकाकी बहुभिस्तत्र परिवार्य महारथैः ।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः ।
वादिकानां कथयतां स मे मर्माणि कृन्तति ॥
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः ।
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके ।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् ।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥
न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति ।
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥
सञ्जय उवाच ।
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् ।
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान् ॥
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ ।
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥
एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ ।
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि ॥
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन् ।
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम् ॥
हत्वा शतसहस्राणि योधानां निशितैः शरैः ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै ।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया ।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः ॥
क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ ।
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ ॥
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् ।
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः ।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो ।
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

10-5-1 अशुश्रूषूः सुदुर्मेधा इति ङ.पाठः । दुर्मेधाः मूढः । अनियतेतिच्छेदः ॥ 10-5-6 अनेय इति झ.पाठः । तत्र अनेयः सन्मार्गं नेतुमशक्यः । दिष्टमुपदिष्टम् ॥ 10-5-8 उच्चावचैः सर्गैरिति क.छ.पाठः ॥ 10-5-14 अप्लवे इति च्छेदः ॥ 10-5-23 अधर्मेण नाभेरधस्तात्प्रहारेण ॥ 10-5-32 नावां शङ्कितुमर्हसीति झ.पाठः ॥ 10-5-36 शस्त्राग्निवर्जिताँल्लोकान्प्राप्रुयादिति मे मतिः इति ङ.पाठः ॥ 10-5-5 पञ्चमोऽध्यायः ॥

श्रीः