अध्यायः 008

शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः ॥ 1 ॥ भयाद्वहिर्निष्क्रान्तानां कृपकृतवर्मक्ष्यां वधः ॥ 2 ॥

धृतराष्ट्र उवाच ।
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे ।
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम् ॥
कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ ।
असह्यमिति मन्वानौ न निवृत्तौ महारथौ ॥
कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान् ।
`कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि' ॥
दुर्योधनस्य पदवीं कच्चित्परमिकां रणे ।
`गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम् ॥
धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल ।
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः ॥
पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः ।
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय' ॥
[पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ । कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥]
सञ्जय उवाच ।
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि ।
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम् ॥
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ ।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने ।
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् । यथा न कश्चिदपि वां जीवन्मुच्येत मानवः ।
तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः ॥
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् ।
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह । `द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव ।
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि' ॥
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे ।
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत ।
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥
क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते ।
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥
तं शयानं महात्मानं विस्रब्धमकुतोभयम् ।
अपोथयत पादेन शयनस्थं महीपते ॥
सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः ।
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम् ॥
तमुत्पतन्तं शयनादश्वत्थामा महाबलः ।
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले ॥
स बलात्तेन निष्पिष्टः साध्वसेन च भारत ।
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा ॥
`निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा ।
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः ॥
तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः ।' द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा ॥
तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः ।
तदन्तं विस्फुरन्तं च पशुमारममारयत् ॥
`स वार्यमाणस्तरसा बलाद्बलवता बली' ।
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ॥
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः ।
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर ॥
एवमुक्त्वा तु वचनं विरराम परन्तपः ।
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम् ॥
तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत् । आचार्यघातिनां लोका न सन्ति कुलपांसन ।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥
`नृशंसेनातिवृत्तेन त्वया मे निहतः पिता । तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत् ॥'
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् ।
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः ॥
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि ।
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥
ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम् ।
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् ।
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम् ॥
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः ।
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे ।
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा ॥
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः ।
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः ।
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन् ॥
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः ।
अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥
राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम् ।
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति ॥
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् ।
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् ।
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा ।
तथैव मारयामास विनर्दन्तमरिन्दमम् ॥
युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः ।
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥
`गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे' ।
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत् ॥
विस्फुरन्तं च पशुवत्तथैवैनममारयत् ।
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ॥
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् । पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके ।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥
ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक् ।
भागशो विचरन्मार्गानसियुद्वविशारदः ॥
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् ।
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत् ॥
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना ।
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च ।
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥
तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः ।
अमानुष इवाकारो बभौ परमभीषणः ॥
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः ।
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः ॥
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम् ।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥
स घोररूपो व्यचरत्कालवच्छिबिरे तदा ।
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः । धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते ।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः ।
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥
भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः ।
ननाद बलवन्नादं जिघांसुस्तान्महारथान् ॥
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् ।
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे । खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम् ।
द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली ॥
ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे ।
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् ।
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥
सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ ।
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् ।
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः ।
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥
श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम् ।
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन् ॥
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना ।
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः ॥
तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत ।
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥
`शरैराच्छादितस्तेन द्रोणपुत्रो महारथः । अदृश्यत महाराज श्वाविच्छललतो यथा ॥'
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः ।
सकुण्डलं शिरः कायाद्वाजमानमपाहरत् ॥
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः ।
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात् ॥
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत् ॥
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः ।
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना ॥
शिखण़्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः ।
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत् । द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि ।
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः ॥
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च ।
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् ।
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम् ॥
ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम् ।
नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम् ॥
वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान् ।
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान् ॥
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष ।
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥
यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः ।
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च ॥
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत् ।
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥
तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम् ।
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः ।
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥
सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित् ।
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः ॥
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः ।
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो ॥
क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम् ।
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत ॥
अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान् ।
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥
ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः ।
निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे ॥
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः ।
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम् ॥
ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः ।
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम् ॥
पुनरुत्पततश्चापि दूरादपि नरोत्तमान् ।
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥
तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत ।
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा ।
तेन चाकाशवर्णेन तथाचरत सोऽसिना ॥
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः ।
व्यक्षोभयत राजेन्द्र महाह््दमिव द्विपः ॥
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः ।
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥
विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन् ।
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च ॥
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् । उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा ।
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः ।
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥
तत्र केचिन्नरा भीता व्यलीयन्त महीतले ।
तथैव तान्निपतितानपिंषन्गजवाजिनः ॥
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ ।
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम ॥
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः ।
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः ॥
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः ।
मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम् ॥
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः ।
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः ।
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥
गजो राजानतिक्रम्य निर्मनुष्या हया हयान् ।
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत ॥
ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम् ।
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन् ॥
विचेतसः सनिद्राश्च तमसा चावृता नराः ।
जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः ॥
त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः ।
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो ।
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् ।
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे ।
तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत् ॥
तत्रापरे वध्यमाना मुहुर्महुरचेतसः ।
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥
तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः ।
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥
विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् ।
वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम् ॥
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः ॥ कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः ।
भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम् ।
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥
ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः ।
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥
कांश्चिदापततो वीरानपरांश्चैव धावतः ।
व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः ॥
कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान् ।
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत् ॥
निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः ।
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥
मानुषाणां सहस्रेषु हतेषु पतितेषु च ।
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥
सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च ।
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥
पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान् ।
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥
मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः ।
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥
एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान् ।
तमसा रजनी घोरा बभौ दारुणदर्शना ॥
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः ।
बहुना च गजाश्वेन भूतभूद्भीमदर्शना ॥
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे । क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ।
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः ॥
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे । यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः ।
असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम् ॥
न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः । शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः ।
ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः ॥
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ।
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः ।
इति लालप्यमानाः स्म शेरते बहवो जनाः ॥
स्तनतां च मनुष्याणामपरेषां च कूजताम् ।
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥
शोणितव्यतिषिक्तायां वसुधायां च भूमिप ।
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥
स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः ।
न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा ॥
अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान् ।
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥
ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते ।
परस्परं तदा योधाननयद्यमसादनम् ॥
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् ।
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥
निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी ।
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः ।
खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः ।
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः ॥
पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः ।
गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः ॥
सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः ।
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे ।
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥
मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः ।
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः ॥
वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः ।
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः ॥
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च ।
रक्षसां घोररूपाणां महतां क्रुरकर्मणाम् ॥
मुदितानां वितृप्तानां तस्मिन्महति वैशसे । समेतानि बहून्यासन्भूतानि च जनाधिप ।
एवंविधा हि सा रात्रिः सोमकानां जनक्षये ।
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥
असंशयं हि कालस्य पर्यायो दुरतिक्रमः ।
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम् ॥
धृतराष्ट्र उवाच ।
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः ।
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥
अथ कस््माद्वते क्षत्रे कर्मेदं कृतवानसौ ।
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि ॥
सञ्जय उवाच ।
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन । असान्निध्याद्धि पार्थानां केशवस्य च धीमतः ।
सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम् ॥
को हि तेषां समक्षं तान्हन््यादपि मरुत्पतिः ।
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ॥
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ।
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः ॥
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ।
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥
स निःशेषानरीन्कृत्वा विरराम निशाक्षये ।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो ।
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः ॥
यथैव संसुप्तजने शिबिरे प्राविशन्निशि ।
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः ॥
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् ।
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥
तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा ।
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥
प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान् ।
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥
पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः ।
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम् ॥
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः ।
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥
इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम् ।
यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

10-8-7 पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पाञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः ॥ 10-8-8 शिबिरद्वार्यतिष्ठतामिति झ.पाठः ॥ 10-8-11 वां युवां प्राप्येति शेषः ॥ 10-8-13 उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः ॥ 10-8-30 पादाष्ठीलैरिति झ.पाठः । तत्र पादाष्ठीलैः पादग्रन्थिभिः । पार्ष्णिघातैरित्यर्थः ॥ 10-8-50 तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्चलद्भी रक्तबिन्दुभिरित्यर्थः ॥ 10-8-87 पाण्डुसृञ्जयान् पाण़्डवसम्बन्धिनः सृञ्जयान् । पाण्डोर्गोत्रापत्यानि सृञ्जयाश्च तान्वा ॥ 10-8-105 अभञ्जन् गात्राण्यनमयन् । अमृद्रन् परस्परं मर्दितवन्तः ॥ 10-8-106 अपिषन् अपिंषन् ॥ 10-8-144 भृशाशिताः भृशं संन्तर्पिताः ॥ 10-8-145 विकुक्षिकाः विपुलकुक्षयः ॥ 10-8-8 अष्टमोऽध्यायः ॥

श्रीः