अध्यायः 015

अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः ॥ 1 ॥ कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा ॥ 2 ॥ ब्रह्मचर्याभावादस््रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम् ॥ 3 ॥

वैशम्पायन उवाच ।
दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ । `गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः ।'
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ॥
उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा ।
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥
यदत्र हितमस्माकं लोकानां चैव सर्वथा ।
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः ॥
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः ।
संहारो दुष्करस्स्य देवैरपि हि संयुगे ॥
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे ।
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥
ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना ।
न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते ॥
अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्यते पुनः ।
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् ।
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण़्डवः ।
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ॥
द्रौणिरप्यथ सम्प्रेभ्य सोऽन्तरा तावृषी स्थितौ ।
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा ॥
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना ।
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता ।
मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥
अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना ।
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे ॥
निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् ।
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥
तदिदं पाण्डवेयानामन्तायैवाभिसंहितम् ।
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्वंशयिष्यति ॥
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा ।
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥
व्यास उवाच ।
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः ।
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे ॥
अस्त्रमस्त्रेण तु रमे तव संशमयिष्यता ।
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ॥
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः ।
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया ॥
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः ।
तस्मात्संहर दिव्यं त्वमस्त्रमेन्महाभुज ॥
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः । न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ।
मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति ।
एतदादाय ते प्रामान्प्रतिदास्यन्ति पाण्डवाः ॥
द्रौणिरुवाच ।
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते ॥
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् ।
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ॥
न च रक्षोगणभयं न तस्करभयं तथा ।
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ॥
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् । अयं मणिरयं चाहमिषीका तु पतिष्यति ।
गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे ॥
वैशम्पायन उवाच ।
प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः ॥
एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन ।
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥
`तमुवाच हृषीकेशः पाण्डवानां हिते मतः ।
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम् ॥
अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम् ।
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम् ॥
एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन ।
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति' ॥
एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम् ।
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम् ॥
नैतदेवं यदात्थ त्वं पक्षपातेन केशव ।
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा ॥
पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम् ।
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि ॥
वासुदेव उवाच ।
अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति ।
`अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः ॥
अहमेनं मृतं जातं जीवयिष्यामि बालकम्' ।
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥
`इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव ।
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति' ॥
ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे ।
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

10-15-8 आवर्तयते उपसंहरति ॥ 10-15-27 एवं जीवितमादाय तव यास्यन्ति पाण्डवाः । इति क.पाठः ॥ 10-15-29 मम वध्यमयं नास्तीति क.पाठः ॥ 10-15-15 पञ्चदशोऽध्यायः ॥

श्रीः