अध्यायः 006

पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥
स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे ।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा ।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥
विदुर उवाच ।
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम् ।
सुगतिं विन्दते येन परलोकेषु मानवः ॥
उच्यते यत्तु कान्तारं महासंसार एव सः ।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत् ॥
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ॥
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै ।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम् ॥
स यस्तु कूपो नृपते स तु देहः शरीरिणाम् । यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ ॥
कूपमध्ये च या जाता वल्ली यत्र स मानवः ।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम् ॥
स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति ।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥
मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः ।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा ॥
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् ।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः ॥
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः ।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

11-6-4 उपमानमिदं राजन्निति झ.पाठः ॥ 11-6-6 षष्ठोऽध्यायः ॥

श्रीः