अध्यायः 012

कृष्णवाक्याद्रतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम् ॥ 1 ॥

वैशम्पायन उवाच ।
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः ।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः ॥
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च ।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले ।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् ॥
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत ।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः ॥
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा ।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव ॥
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते ।
देशकालविभागं च परं श्रयेः स विन्दति ॥
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते ।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल ॥
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि ।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम् ।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः ।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥
वैशम्पायन उवाच ।
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप ।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥
एवमेतन्महाबाहो यथा वदसि माधव ।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत् ॥
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः ।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव ॥
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च ।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते ॥
ततः स भीमं च धनञ्जयं च माद्याश्च पुत्रौ पुरुषप्रवीरौ ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा-- नाश्वास्य कल्याणमुवाच चैनान् ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

11-12-4 न तत्कृथाः ततन्न कृतवानरी । अडभाव आर्षः ॥ 11-12-7 श्रेयो हिताहिते उच्यमानो न गृहीत इत्यन्वयः ॥ 11-12-10 वैरं प्रतिचिकीर्षतेति क.पाठः ॥ 11-12-11 अनागसि अपराधाभावे । परित्यागो राज्याप्रदानेन तिरस्कारः ॥ 11-12-12 द्वादशोऽध्यायः ॥

श्रीः