अध्यायः 013

कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम् ॥ 1 ॥ गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम् ॥ 2 ॥

वैशम्पायन उवाच ।
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः ।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् ।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति ।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत ॥
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः ।
तं देशमुपसंपेदे पाराशर्यो मनोजवः ॥
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च ।
सर्वप्राणभृतां भावं सततं स तु बृध्यति ॥
स स्नुषामब्रवीत्काले कल्याणानि महातपाः ।
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि ।
रजो निगृह्यतां चैव शृणु चेदं वचो मम ॥
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता ।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा ।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः ॥
वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि ।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम् ॥
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम् ।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम् ।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥
सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी ।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते ॥
गान्धार्युवाच ।
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया ।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥
दुःशासनापराधेन शकुनेः सौबलस्य च ।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः ॥
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः ।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः ॥
युध्यमाना हि कौरव्याः कृतमामाः परस्परम् ।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः ।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः ॥
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे ।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥
कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः ।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

11-13-10 न चाप्यतीतां गान्धारि वाचं ते वितथामहम् । स्मरामितोषमाणायास्तथा प्रणिहिता ह्यसि इति झ.पाठे अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः ॥ 11-13-13 सा त्वं धर्म परित्यज्य वाचा चोक्त्वा मनस्विनि । इचि छ.ट.पाठः ॥ 11-13-18 कृतमानाः कृताहकाराः ॥ 11-13-13 त्रयोदशोऽध्यायः ॥

श्रीः