अध्यायः 017

गान्धार्या दुर्योधनमालिङ्ग्य परिदेवनम् ॥ 1 ॥

वैशम्पायन उवाच ।
दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता ।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च ।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥
परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत् ।
हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥
सुगूढजत्रु विपुलं हारनिष्कविभूषितम् ।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ॥
समीपस्थं हृषीकेशमिद वचनमब्रवीत् ।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो ॥
मामयं प्राह वार्ष्णेय प्राञ्चलिर्नृपसत्तमः ।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम् ।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥
तथा तु युव्यमानस्त्वं सम्प्रगृह्य सुपुत्रक ।
ध्रुवं शखजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो ॥
इत्येवxxx पूर्वं नैवं शोचामि वै प्रभो ।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥
अमर्वणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।
शयानं वीरशयने पश्य माधव मे सुतम् ॥
बोऽयं मूर्धावसिक्तानाये याति परन्तपः ।
सोऽवं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम् ॥
दुवं दुर्योधनो वीरो गतिं न सुलभां गतः ।
तथा ह्यभिxxxx शेते शयने वीरसेविते ॥
यं पुरा पर्युपासीना समयन्ति वरस्त्रियः ।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः ॥
यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।
महीतलस्यं निहतं गृध्रास्तं पर्युपासते ॥
यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः ।
तमद्य पक्षव्यजनै रुपवीजन्ति पक्षिणः ॥
एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ॥
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् ।
निहतं भीमसेनेन गदां सम्मृज्य भारत ॥
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ॥
एष दुर्योधनः शेते महेष्वासो महाबलः ।
शार्दूल इव सिंहेन भीमसेनेन पातितः ॥
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक् ।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥
निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता ।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम् ।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम् ॥
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम् ।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव ॥
इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम ।
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभूजाङ्कगाम् ।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥
नूनमेषा पुरा बाला जीवमाने महाभुजे ।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥
कथं तु शतधा नेदं हृदयं मम दीर्यते ।
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे ॥
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती ॥
किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी ।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।
पतत्युरसि वीरस्य कुरुराजस्य माधव ॥
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा ।
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥
यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा ।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

11-17-27 पुत्रेण सहितं रणे इति झ.पाठः ॥ 11-17-30 पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम् ॥ 11-17-17 सप्तदशोऽध्यायः ॥

श्रीः