अध्यायः 018
कृष्णम्प्रति गान्धारीवचनम् ॥ 1 ॥
गान्धार्युवाच ।
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् ।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः ।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥
प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः ।
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम् ॥
कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान् ।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥
एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा ।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता ॥
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् ।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति ॥
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि ।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान् ॥
मध्यमानां तु नारीणां वृद्धानां चापराजित ।
आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु ॥
रथनीडानि देहांश्च हतानां गजवाजिनाम् ।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज ॥
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया ।
यदिदं धर्मराजेन घातितं नो जनार्दन ॥
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः ।
कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः ॥
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥
फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम् ।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान् ॥
सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम् ।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः ।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले ।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥
एष दुःशासनः शेते शूरेणामित्रघातिना ।
पीतशोणिxx सर्वाङ्गो युधि भीमेन पातितः ॥
गदया भीमसेनेन पश्य माधव मे सुतम् ।
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च ॥
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥
सहैव सहदेवेन नकुलेनार्जुनेन च ।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ।
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय ॥
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् ।
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः ॥
न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥
तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन् ।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।
निहतो भीमसेनेन सिहेनेव महागजः ॥
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ ॥
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
11-18-5 करसम्मितमध्यमा मुष्टिप्रमितमध्या ॥ 11-18-23 क्षिप्तं शकुनिं पुत्र वजेयेति झ.पाठः ॥ 11-18-18 अष्टादशोऽध्यायः ॥
श्रीः