अध्यायः 019
कृष्णम्प्रति गान्धारीवचनम् ॥ 1 ॥
गान्धार्युवाच ।
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः ।
भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥
गजमध्ये हतः शेते विकर्णो मधुसूदन ।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः ॥
अस्य चापग्रहेणैव पाणिः कृतकिणो महान् ।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ॥
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी ।
वारयत्यनिशं बाला न च शक्नोति माधव ॥
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव ॥
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे ।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ॥
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता ।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ॥
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् ।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ॥
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम् ।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ॥
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते ।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ॥
चित्रसेनं हतं भूमौ शयानं मधुसूदन ।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम् ॥
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः ।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ॥
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् ।
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे ॥
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः ।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ॥
शरसङ्कृत्तवर्माणं वीरं विशसने हतम् ।
परिवार्यासते गृध्राः परिविंशं विविंशतिम् ॥
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम् ।
स वीरशयने शेते परः सत्पुरुषोचिते ॥
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् ।
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः ॥
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः ।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ॥
हन्तारं परसैन्यानां शूरं समितिशोभनम् ।
निबर्हणममित्राणां दुःसहं विषहेत कः ॥
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः ।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः ॥
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता ।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ॥ ॥
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
श्रीः