अध्यायः 025

कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम् ॥ 1 ॥

गान्धार्युवाच ।
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम् ।
शयानमृषभस्कन्धं हतं पांसुषु माधव ॥
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ ।
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात् ॥
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर ।
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा ॥
आतपे क्लाम्यमानानां विविधानामिव स्रुजाम् ।
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः ॥
शयानमभितः शूरं कालिङ्गं मधुसूदन ।
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम् ॥
मागधानामधिपतिं जयत्सेनं जनार्दन ।
परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥
हरिणायतनेत्राणां सुस्वराणां जनार्दन ।
मनः श्रुतिहरो नादो मनो मोहयतीव मे ॥
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः ।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥
कोसलानामधिपतिं राजपुत्रं बृहद्बलम् ।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान् ।
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः ॥
आसां सर्वानवद्यानामातपेन परिश्रमात् ।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः ।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः ॥
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् ।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम् ॥
तथैव निहताः शूराः शेरते रुचिराङ्गदाः ।
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः ॥
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः ।
भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् ।
महाद्विपमिवारण्ये सिंहेन महता हतम् ॥
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम् ।
आतपत्रं समाभाति शरदीव निशाकरः ॥
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः ।
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः ॥
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः ।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन ।
महेष्वासो हतः शेते वज्राहत इव द्रुमः ॥
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः ।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ॥
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः ।
चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम् ।
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः ॥
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् ।
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥
पितरं नूनमाजिस्थं युध्यमानं परैः सह ।
नाजहात्पितरं वीरमद्यापि मधुसूदन ॥
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् ।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव ।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात् ।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ॥
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् ॥
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन । यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ।
`शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः' ॥
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः ।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः ॥
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च ।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति ।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥
वैशम्पायन उवाच ।
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता ।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥
गान्धार्युवाच ।
पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम् ।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥
शक्तेन बहुभृत्येन विपुले तिष्ठता बले ।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन ।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् ।
तेन त्वां दुरवापेन शपे चक्रगदाधरम् ॥
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥
त्वमप्युपस्थिते वर्षे षट््त्रिंशे मधुसूदन ।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ॥
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः ।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः ।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥
वैशम्पयन उवाच ।
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः ॥
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः ॥
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः । इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः ।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

11-25-1 काम्भोजास्तरणं कम्बलविशेषः ॥ 11-25-3 बाहू शुभतलाङ्गुली इति झ.पाठः ॥ 11-25-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति झ.पाठः ॥ 11-25-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः ॥ 11-25-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय ॥ 11-25-36 तयोर्भीष्मविदुरयोः दर्शनं अनागतावेक्षणम् ॥ 11-25-38 जगादशौरिं रोषणेति ट.पाठः ॥ 11-25-47 अभ्युत्स्मयन्नीषद्ध्वंसयन् ॥ 11-25-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि । स्वतपोनाशार्थमिति भावः ॥ 11-25-25 पञ्चविंशोऽध्यायः ॥

श्रीः